________________
'थूलं त्ति' - स्थूलम् उरभ्रं इह बौद्धमते हत्वा उद्दिष्टभक्तं च प्रकल्प्य तन्मांसं लवणतैलाभ्यां संस्कृत्य संपिष्पलीकं कुर्वन्ति॥३७॥ तं भुंजमाणा पिसियं पभूयं, न उवलिप्पामु वयं रएणं। इच्चेवमाहंसु अणजधम्मा, अणारिया बाल रसेसु गिद्धा।।३८॥
'तं भुंजमाण त्ति'- तत् पिशितं मांसं प्रभूतं भुञ्जाना अपि वयं रजसा न उपलिप्यामहे, एवम् अनार्यधर्मा दुष्टस्वभावा अनार्या इव अनार्या बाला रसेसु मांसादिषु गृद्धाः वदन्ति।।३८॥
जे यावि भुंजंति तहप्पगारं, सेवंति ते पावमजाणमाणा।। मणं न एयं कुसला करेंति, वाया वि एसा बुइया उ मिच्छा ॥३९॥ 'जे यावि त्ति' - ये बौद्धा अपि तथाप्रकारं मांस भुंजते ते पापम् अजानन्तो निर्विवेकिन: सन्त: सेवन्ते, यदुक्तम्हिंसामूलममेध्यमास्पदमलं ध्यानस्य रौद्रस्य यद्, बीभत्सं रुधिराविलं कृमिगृहं दुर्गन्धि पूयाविलं । शुक्राऽसृक्प्रभवं नितान्तमलिनं सद्भिः सदा निन्दितं, को भुङ्क्ते नरकाय राक्षससमो मांसं तदात्मद्रुहः ? ॥ तथा,
KITCHEETTETTE
॥११५॥
१ 'अपरसंस्कारकद्रव्यसमन्वितम्' इत्यर्थः।