SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ श्री सूत्रकृताङ्गदीपिका मांस भक्षयिताऽमुत्र, यस्य मांसमिहाम्यहं । एतन्मांसस्य मांसत्वं, प्रवदन्ति मनीषिणः ॥ योऽत्ति यस्य च तन्मांसमुभयो: पश्यतान्तरं । एकस्य क्षणिका तृप्तिरन्यः प्राणैर्वियुज्यते || तदेवं दोषं मत्वा कुशला मांसाभिलाषे मनो न कुर्वन्ति, वागपि एषा 'न मांसभक्षणे दोष' इत्यादिका उक्ता सती मिथ्या, निवृत्तिस्तु महागुणाय, यदुक्तं श्रुत्वा दुःखपरंपरामतिघृणां मांसाशिनां दुर्गतिं, ये कुर्वन्ति शुभोदयेन विरतिं मांसादनस्याऽऽदरात् । सद्दीर्घायुरदूषितं गदरुजा संभाव्य यास्यन्ति ते, मर्त्येषूद्भटभोग - धर्म - मतिषु स्वर्गापवर्गेषु वा ॥ इति ॥३९॥ सव्वेसि जीवाण दट्ट्याए, सावज्जदोसं परिवज्जयंता । तस्संकिणो इसिणो नायपुत्ता, उद्दिट्ठभत्तं परिवज्जयंति ॥४०॥ 'सव्वेसि त्ति' सर्वेषां जीवानां दयार्थाय सावद्यदोषं महादोषं परिवर्जयन्तः तच्छंकिनो दोषशङ्किनः ऋषयो ज्ञातपुत्रीयाः श्रीवीरशिष्या उद्दिष्टभक्तं परिवर्जयन्ति ॥ ४० ॥ द्वि.. स्कन्धे षष्ठमध्ययनम्
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy