SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ श्री सूत्रकृताङ्गदीपिका अबोधिलाभार्थम्, तयोः द्वयोः अपि स्यात्, कौ द्वौ ? ये एवं पूर्वोक्तं वदन्ति ये च तेभ्यः श्रुण्वन्ति तयोः द्वयोरपि असाधु एतत्, अज्ञानावृतमूढजनभावशुद्ध्या शुद्धिः न स्यादित्यर्थः॥ ३०॥ उड्डुं अहे य तिरियं दिसासु, विष्णाय लिंगं तस - थावराणं । भूयाभिसंकाए दुगुंछमाणा, वए करेजा वि कुओ विहऽत्थी ॥ ३१ ॥ 'उड्डुं अहेत्ति' - ऊर्ध्वमधस्तिर्यक् च सर्वदिक्षु त्रस - स्थावराणां लिङ्गं जीवत्वचिह्नं विज्ञाय भूताऽभिशंकया जीवघातो अत्र भावी इति बुद्ध्या सर्वमनुष्ठानं जुगुप्समान: तद्घातं परिहरन् वदेत् कुर्यादपि इति कुतोऽस्ति इह त्वदुक्तो दोषः, न कश्चिदत्र अस्म दोषोऽस्ति इत्यर्थः ॥ ३१ ॥ पुरिसे त्तिविन्नत्ति न तीइ अत्थि, अणारिए से पुरिसे तहाह । को संभवो ? पिंण्णागट्टयाए, वाया वि एसा बुईया असच्चा ||३२|| 'पुरिसे त्ति' - तस्यां पिण्याकपिण्ड्यां पुरुषो अयमिति विज्ञप्ति: मतिः नास्ति जडस्याऽपि तस्माद् य एवं वक्ति स पुरुषो अनार्य एव, कः संभवः पिण्याकपिण्ड्यां पुरुषबुद्धेः ? अतो वागपि एषा असत्या कथिता, तस्मात् पिण्याककाष्टादौ अपि प्रवर्त्तमानेन १ B पिणागट्ट्याए JAM पिन्नगपिंडियाए द्वि. श्रु. स्कन्धे षष्ठमध्ययनम्
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy