________________
शोभनां, तदेतद् बुद्धानां शाक्यानां कल्पते पारणाय भोजनाय, एवम् असङ्कल्पितं कर्म चयं न याति अस्मन्मते॥२८॥
सिणायगाणं तु दुवे सहस्से, जै भोयए णितिए भिक्खुयाणं। ते पुण्णखंधं सुमहऽजिणित्ता, भवंति आरोप्प महंतसत्ता ॥२९॥
'सिणायगाणं त्ति'- स्नातका बौद्धशिष्याः तेषां भिक्षुकाणां सहस्रद्वयं निजे बौद्धधर्मे कश्चिद् उपासक: पचनाद्यारम्भं कृत्वा अपि भोजयेत्, ते बहवोऽपि श्रद्धालव: पुण्यस्कन्धं महान्तं समावर्ण्य आरोप्याख्या देवा भवन्ति महासत्त्वाः॥२९॥
बौद्धैः इत्युक्ते आर्द्रक: प्राहअजोगरूवं इह संजयाणं, पावं तु पाणाण पसज्झ काउं। अबोहिए दुण्ह वि तं असाहू, वयंति जे यावि पडिस्सुणंति।।३०।।
'अजोगरूवं त्ति' - यत्तव मते कथितं तत् संयतानां अयोग्यरूपं अघटमानम् इदं यत् प्राणानाम् इन्द्रियादीनां घातेन पापं कृत्वा तदभावं वदन्ति, खलबुद्ध्या पुरुषं नतोऽपि न पापमिति, पुरुषबुद्ध्या खलपाती पापवान् इति वचनं तेषां अबोध्यै
॥११३॥
१B जो २ BD पुण्यसम्बन्धं