________________
श्री सूत्रकृताङ्गदीपिका
द्वि.श्रु.स्कन्धे षष्ठमध्ययनम्
_ 'पिण्णाग त्ति' - पिण्याक: खल: तस्य पिंडी शकलं अचेतनमपि कदाचित् म्लेच्छादिविषये सम्भ्रमे केनचिन्नश्यता खलोपरि वस्त्रं प्रक्षिप्तं, तच्च म्लेच्छेन पुरुषो अयमिति बुद्ध्या गृहीतं, ततो असौ म्लेच्छो वस्त्रवेष्टितां खलपिण्डी पुरुषबुद्ध्या शूले प्रोतां पावके पचेत्, तथा अलाबुकं तुम्बकं कुमारो अयमिति मत्वा अग्नौ पचेत्, अस्माकं मते स प्राणिवधेन लिप्यते चित्तस्य दुष्टत्वात्।।२६॥
अहवा वि विभ्रूण मिलक्खु सूले, पिण्णागबुद्धीइ नरं पएजा। कुमारगं वा वि अलाउए त्ति, न लिप्पई पाणिवहेण अम्ह।।२७॥
'अहव त्ति' - अथवा सत्यपुरुषं खलबुद्ध्या कश्चित् म्लेच्छ: शूले प्रोतं अग्नौ पचेत्, कुमारकं बालं वा अलाबुबुद्ध्या पचेत्, न असौ प्राणिवधेन लिप्यते अस्माकम् इति प्राणिवधाऽभिप्रायाऽभावात्।।२७।।
पुरिसं च विभ्रूण कुमारगं वा, सूलंमि केई पंयई जायतेए। पिण्णायपिंडिं सतिमारुहित्ता, बुद्धाण तं कप्पड़ पारणाए।।२८॥ 'पुरिसं ति: - पुरुषं कुमारकं वा शूले विद्ध्वा कश्चिद् जाततेजसि वह्नौ आरुह्य पचेत् खलपिण्डी इयमिति मत्वा सती
१J पए