________________
त्रायी ज्ञाती च, ज्ञातं-वस्तु विद्यते यस्य स ज्ञाती ज्ञातसर्वज्ञेयः, एवम्भूतेन भगवता तेषां पूर्वोक्तानां वणिजां कथं सर्वसाम्यमिति ||२४||
अहिंसये सव्वपयाणुकंपी, धम्मे ठियं कम्मविवेगहेउं । तमायदंडेहिं समायरंता, अबोहिए तप्पडिरूवमेयं ॥२५॥
'अहिंसयंत्ति' असौ भगवान् समवसरणाद्युपभोगं कुर्वन्नपि अहिंसन्, कोऽर्थः? - नहि तत्र अर्हतः काऽपि आशंसा प्रतिबन्धो वा अस्ति, साम्यरसलीनत्वात्, सर्वेषां प्रजा-जंतव: तेषां अनुकम्पी, एवंविधं धर्मे स्थितं तं भवादृशा आत्मदण्डैः समाचरन्तो वणिगादितुल्यं कुर्वन्ति, एतच्च अबोधे: अज्ञानस्य प्रतिरूपं अज्ञानविलसितमित्यर्थः।।२५॥
एवं गोशाले निराकृते बौद्धाः प्राहुः, त्वया वणिग्दृष्टान्तदूषणेन बाह्याऽनुष्ठानं दूषितं तद्वरं कृतं, यतो अस्मत्सिद्धान्तेऽपि आन्तरमेव अनुष्ठानं भवमोक्षयोः प्रधानाङ्गमिति तत्त्वं श्रुणु
पिण्णागपिंडीमवि विद्ध सूले, केई पइज्जा पुरिसे इमेत्ति १ अलावुयं वावि कुमारइ त्ति, स लिप्पई पाणिवहेणं अम्हं ॥२६।।
॥११२॥