________________
श्री सूत्रकृताङ्गदीपिका
आरंभगं चेव परिग्गहंच, अविउसिया निस्सिय आयदंडा। तेसिं च से उदए जं वयासी, चउरंतणंताय दहाय ह ॥२३॥
द्वि.श्रु.स्कन्धे
षष्ठमध्ययनम् 'आरंभगं त्ति' - आरम्भं परिग्रहं च अव्युत्सृज्य अत्यक्त्वा तत्रैव नि:सृता बद्धा, आत्मा एव दण्डो हिंसको येषां ते तथा, तेषां च वणिजाम् उदयो लाभो यदर्थं ते प्रवृत्ता: यं च त्वं लोभं वदसि स तेषां चतुरंत: चतुर्गतिको य: संसारो अनन्तः तस्मै तदर्थं भवति तथा दुःखाय भवति, न च स लाभोऽपि तस्य एकान्तिकः ॥२४॥ एतदेव आह
णेगंत णच्चंतिय उदए से वयंति, ते दो वि भावे विगुणोदयंमि।
से उदए साइमणंतपत्ते, तमुदयं साहइ ताइ णाई ॥२४॥ ___ 'णेगंत त्ति' - ऐकान्तिक: आत्यन्तिकश्च तेषां वणिजाम् उदयो लाभो न विद्यते, लाभार्थं प्रवृत्तस्य हानेः अपि दर्शनात् । एवं वदन्ति तद्विदः, तौ च द्वावपि भावौ विगतगुणोदयौ, कोऽर्थ:? यो अनैकान्तिक: अनात्यन्तिकश्च किं तेन लाभेन इति, य: से तस्य भगवत उदयो लाभो धर्मदेशनादिः स च सादिः अनन्तश्च, एवंभूतं उदयं प्राप्तो अन्येषामपि तादृशं साधयति कथयति,
१BD अविओसिया २JAM "दो विगुणोदयंमि" म्दानुलोम्येन अयमेव सुख प्रतिभाति