________________
श्री सूत्रकृताङ्गदीपिका
पन्नं जहा वणिए उदयट्ठी, आयस्स हेडं पकरेइ संगं । तउवमे समणे नायपुत्ते, इच्चेव मे होइ मई वियक्का ।।१९।।
‘पन्नं जहत्ति' - यथा वणिग् उदयार्थी लाभार्थी पण्यं क्रयाणकं देशान्तरे गत्वा विक्रीणाति, आयस्स लाभस्य हेतो: महाजनसङ्गं प्रकरोति, तदुपमो अयं श्रमणो ज्ञातपुत्र इत्येवं मे मम मति: स्यात् वितर्का विचारणा च ॥१९॥ आर्द्रकमुनिः
द्वि.श्रु.स्कन्धे षष्ठमध्ययनम्
आह
KAHAKAKKAKKAKKAKKAKIRTAS
नवं न कुज्जा विहुणे पुराणं, चिच्चाऽमतिं ताइहि आह एवं । एतावया बंभवइ त्ति वुत्ते, तस्सोदयट्ठी समणे त्ति बेमि ॥२०॥
'नवं न कुजत्ति' -भगवान् सावद्यानुष्ठानरहितो नवं कर्म न कुर्यात्, पुरातनं च विधूनाति अपनयति, त्यक्त्वा अमतिं विमतिं त्रायी स भगवान् परेभ्योऽपि एवमाह, यथा विमतित्यागेन मोक्षगामी स्यादिति, एतावता ग्रन्थेन ब्रह्मणो मोक्षस्य व्रतमिति उक्तं, तस्य मोक्षानुष्ठानस्य उदयार्थी लाभार्थी श्रमणो भगवान्, ततो वणिग्दृष्टांतः सर्वसाधर्म्यण न प्रवर्तते भगवतः सावद्यानुष्ठानरहितत्वात्, देशसाधर्म्यं तु युक्तमेव, यथा वणिग् यत्र लाभं पश्यति तत्र क्रियां व्यापारयति तथा भगवान् अपि इति १P ताइह AM ताइ य J तायति २JAM साह