________________
गंतुं व तत्था अदुवा अगंता, वियागरिजा समयाऽऽसुपन्ने। अणारिया दंसर्णओ परित्ता, इइ संकमाणो ण उवेइ तत्थ ॥१८॥
'गंतुं वत्ति' - स भगवान् गत्वाऽपि शिष्यसमीपं अथवा तत्र अगत्वा यथा सत्त्वोपकार: स्यात् तथा व्यागृणीयात् देशनां कुर्यात्, उपकारे सति गत्वाऽपि कथयति, असति तु स्थितोऽपि न वदति, ततो न तस्य रागद्वेषसंभव:, केवलम् आशुप्रज्ञः सर्वज्ञः समतया समदृष्ट्या वदेत्, 'जहा पुण्णस्स कत्थइ तहा तुच्छस्स कत्थई' इति वचनात् चक्रवर्तिद्रमकादिषु पृष्टो अपृष्टो वा तुल्यं व्यागृणीयादित्यर्थः, कथमनार्येषु स न यातीत्याह- अणारिय त्ति - अनार्या दर्शनत: सम्यक्त्वात् परीत्ता भ्रष्टा इति शङ्कमानो विचारयन् भगवान् न तत्र उपैति, ते हि वर्तमानसुखमेव मन्यन्ते न परलोकसुखमिति लाभादर्शनात् तत्र न याति भगवान्, न तु द्वेषबुद्ध्या, यदप्युक्तं- पण्डितनरगुडिकादिविद्यासिद्धभयात् न तेषां स्थानं याति इति, एतत् प्रलापप्राय, यतः सर्वैरपि तीर्थिकैः सर्वज्ञस्य भगवतो मुखमपि अवलोकयितुं न शक्यते वादस्तु दूरापास्त एवेति ॥१८॥
अथ गोशाल: प्राह
KESHETHELETESTERNET
॥११०॥
१BD ०णउ २ BD तेषां