SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ श्री सूत्रकृताङ्गदीपिका आर्ये तु देशनां करोति, तत्राऽपि न सर्वत्र किन्तु कुत्रचिद् एव इति ततोऽसौ रागद्वेषाऽऽकुलो वीर, इति गोशालेन उक्ते आर्द्रकुमार आह कामकच्चा ण य बालकिच्चा, रायाभिओगेण कुओ भएणं । वियागरिंजा पसिणं न वा वि, सकामकिच्चेणिह आरियाणं ॥ १७॥ ‘णाकामकिच्च त्ति’ - स भगवान् अकामकृत्यो न स्यात् अनिच्छाकारी न भवति इत्यर्थः, य: प्रेक्षापूर्वकारी न स्यात् सो अनिष्टमपि- स्वपरयोः निरर्थकमपि कृत्यं कुर्वीत, भगवांस्तु सर्वज्ञः प्रेक्षापूर्वकारी कथं स्वपरयोः निरुपकारकमेव कुर्यात्, बालस्य इव कृत्यं यस्य स बालकृत्यो, न असौ बालवद् अनालोचितकारी, न राजाऽभियोगेन असौ देशनां करोति, ततः कुतः तस्य भयेन प्रवृत्तिः स्यात् ? एवं सति केनचित् कृतं प्रश्नं व्यागृणीयाद् वदेद् यदि तस्य उपकारः स्यात्, उपकारं विना नैव वदेत्, अथवा अनुत्तरसुराणां मनःपर्यवज्ञानिनां च द्रव्यमनसा एव तन्निर्णयाद् अतो न वदेत्, स्वकामकृत्येन स्वेच्छाकारितया तीर्थकृन्नामकर्मणः क्षपणाय न यथाकथञ्चिद्, अतो असौ इह आर्यक्षेत्रे आर्याणाम् उपकारसंभवे धर्मं वदेत्॥ १७ ॥ १ AM लेखा, द्वि. श्रु. स्कन्धे षष्ठमध्ययनम्
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy