________________
आगंतगारे आरामगारे, समणे उ भीते न उवेइ वासं ।
दक्खा हु संती बहवे मणुस्सा, उणातिरित्ता य लवालवा य ॥ १५ ॥
'आगंतगारे त्ति' - यो भवतः तीर्थकृद् वीरः स रागद्वेषभययुक्तः, तथाहि आगन्तुकानां कार्पटिकादीनाम् अगारम् आगंतागार, आरामे अगारम् आरामागारं तत्र असौ श्रमणो भीतः सन् न वासमुपैति, किं तत्र भयमित्याह - दक्षाः पण्डिता हुः यस्माद् बहवः सन्ति मनुष्याः, तद्भीतो असौ तत्र न याति, ऊनाः स्वतो हीना अतिरिक्ता वा जात्यादिना सन्ति केचित् तै: पराजितस्य महान् काभ्रंशः स्यात्, ते नराः किं भूता? लपा वाचाला घोषिततर्कदण्डकाः, तथा अलपाः मौनव्रतिका: गुडिकादिविद्यायुक्ता यद्वशाद् वाग् एव न निस्सरति मुखात्, तद्भयात् तेषु गृहेषु असौ न यातीति॥१५॥
वो सिक्खि बुद्धिमंता, सुत्तेहिं अत्थेहि य निच्छयण्णू । पुच्छिंसु मा णे अणगार एगें, इइ संकमाणो ण उवेइ तत्थ ॥ १६ ॥
'मेहाविणो त्ति' - मेधाविनो ग्रहणधारणसमर्थाः बुद्धिमन्तः शिक्षिताः सूत्रे अर्थे च निश्चयज्ञाः ते ईदृशाः सूत्रार्थविषयं प्रश्नं मा कार्षुः अनगारा एके इति असौ शङ्कमानो बिभ्यत् न तत्र तेषां मध्ये उपैति याति ॥ १६ ॥ तथा अनार्यदेशे न धर्मं कथितवान्, १ AM अन्ने
॥१०९॥