________________
ते अण्णमण्णस्स उ गरहमाणा, अक्खंति उसमणा माहणा य। सओ य अत्थी असओ य णत्थी, गरहाम दिद्धिं न गरहामो किंचि॥१२॥
'ते अण्ण त्ति' ते प्रावादुका अन्योऽन्यस्य परदर्शनं गर्हमाणा: स्वदर्शनगुणान् आख्यान्ति, यथा स्वत इति स्वकीये पक्षे स्वमते अस्ति पुण्यं, अस्वत: परमते नास्ति पुण्यं इत्येवं तीर्थकाः परस्य व्याघातेन प्रवृत्ताः, वयं तु तत्त्वप्ररूपणाद् एकान्तदृष्टिं गर्हामः, न हि एकांतपक्षो युक्तिसंगत इति वदन्तो वयं न किञ्चिद् गर्हाम:, काणांधादिवस्तुस्वरूपकथने न पराऽपवादः, तथा चोक्तं
नैत्रैर्निरीक्ष्य बिलकण्टककीटसर्पान्, सम्यक् पथा व्रजत तान् परिहत्य सर्वान् । ____ कुज्ञान-कुश्रुति- कुमार्ग-कुदृष्टिदोषान्, सम्यग् विचारयत कोऽत्र परापवादः?॥ इति॥१२॥
न किंचि रूवेणऽभिधारयामो, संदिट्ठिमग्गं च करेमु पाउं।
मग्गे इमे किट्टिए आरिएहिं, अणुत्तरे सप्पुरिसेहिं अंजू ॥१३॥ 'न किंचित्ति' - न कञ्चन श्रमणं ब्राह्मणं वा स्वरूपेण अभिधारयामो गर्हणबुद्ध्या उद्घट्टयामः, केवलं स्वदृष्टिमार्ग तदङ्गीकृतं दर्शनं प्रादुष्कुर्मः तद्यथा
॥१०८॥
१BD सदिदि