________________
श्री सूत्रकृताङ्गदीपिका
द्वि.श्रु.स्कन्धे षष्ठमध्ययनम्
KESKKEEKSHAKEEKKE KARE
'जे यावि त्ति' - ये चाऽपि भिक्षवो बीजोदकभोजिनः सन्तो भिक्षां च याचन्ते, जीवितार्थिन: ते ज्ञातिसंयोगं स्वजनसम्बन्धं प्रविहाय त्यक्त्वा कायात् कायेषु उपगच्छन्ति इति कायोपगा: तदुपमर्दाऽऽरंभप्रवृत्ताः संसारस्य अनन्तकरा: स्युः अन्तकरा न भवन्ति इत्यर्थः॥१०॥ अथ गोशालो अन्यतीर्थिकान् सहायान् कृत्वा सोलुण्ठं असारं प्राह
इमं वंइं तुमं पाउकुव्वं, पावाइणो गरहसि सव्व एव। पावाइणो उ पुढो किट्टयंता, सयं सयं दिट्ठि करेंति पाउं ॥११॥
'इमं वइं त्ति' - इमां पूर्वोक्तां वाचं त्वं प्रादुःकुर्वन् सर्वान् प्रावादुकान् गर्हसि, यत: सर्वेऽपि तीर्थिका बीजोदकादिभोजिनोऽपि भवोच्छेदाय प्रवर्त्तन्ते, ते तु प्रावादुका: पृथक् पृथक् स्वीयां दृष्टिं प्रत्येकं स्वदर्शनं कीर्तयन्त: प्रादुष्कुर्वन्ति प्रकाशयन्ति, अथवा श्लोकपश्चार्द्धम् आर्द्रमुनिः आह- सर्वेऽपि प्रावादुकाः स्वमतं प्रकाशयन्ति, तथा वयमपि स्वदर्शनं प्रादुष्कुर्मो, यद् बीजोदकादिभोगेन कर्मबन्धो न भवोच्छेद इति स्थिते का अत्र परनिन्दा को वा आत्मोत्कर्ष? इति ॥११॥
१७ वयं २ BD आर्द्रकमुनिः