________________
तिष्ठति तावत् जीवोऽपि, विनष्टे शरीरे जीवोऽपि न धरति-विनष्ट इत्यर्थः, तदेवं यावदेतच्छरीरं अप्रच्युतं तावदेव जीवस्य तज्जीवितं भवति, विनष्टे शरीरे तद्रूपो जीवोऽपि विनष्ट इति कृत्वा आदहनाय आ-समंताद् दहनार्थं स्मशानादौ नीयते परैः, तस्मिंश्च शरीरेऽग्निना ध्यापिते कपोतवर्णानि अस्थीनि केवलमुपलभ्यते न कश्चित् तदपरो जीव:, ते च तद्बांधवा जघन्यतोऽपि चत्वारः, आसंदीमंचक: स पञ्चमो येषां ते आसंदीपञ्चमा: पुरुषाः तं कायं अग्निना ध्मा पयित्वा स्वं ग्रामं प्रत्यागच्छन्ति, यदि पुनरात्मा कायाद्भिन्न: स्यात्तदा निर्गच्छन् दृश्येत, न च दृश्यते, तस्मात् तज्जीवः तदेव शरीरमिति स्थितम्, एवमुक्तनीत्या स जीवो असन् अविद्यमानो येषामयं पक्षो यत्काये तिष्ठन् गच्छंश्च असंवेद्यमानो-अननुभूयमानो जीव इति, तेषां तत् स्वाख्यातं भवति, येषां पुनरन्यो जीवोऽन्यच्छरीरं एवंभूतो अप्रमाणक एव अंगीकारः तस्मात्ते मूढतया प्रवर्तमाना एवं वक्ष्यमाणं न विप्रतिवेदयन्ति जानन्ति, यथा हे आयुष्मन् ! अयमात्मा शरीराद्भिन्नः स्वीक्रियमाणः किंपरिमाणः स्यादिति वाच्यं, किं दीर्घः ? किं ह्रस्व:? इत्यादि, संस्थानेषु किं परिमंडल:? इत्यादि, वर्णेषु किं कृष्ण:? इत्यादि, गंधयो: किं सुरभिगंधः? इत्यादि, रसेषु किं तिक्तः? इत्यादि, स्पर्शेषु किं कर्कश:? इत्यादि, तदेवं संस्थानवर्णगंधरसस्पर्शानामभावाद् असन् अविद्यमानो असंवेद्यमानो येषां तत् स्वाख्यातं भवति, येषां अन्यो जीव: अन्यच्छरीरमिति पक्षः (तदप्रमाणक एव,) तस्मात् पृथग् अविद्यमानत्वात् ते जीववादिनो नैवं आत्मानमुपलभन्ते ॥१५॥ आत्मानास्तित्वं दृष्टांतैः
॥८॥
(१) PBD घ्यामिते (२) PBD घ्यामयित्वा