SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ श्री सूत्रकृताङ्गदीपिका सं'वरं च सप्तदशप्रकारं संयमं- विरतिं च कथितवान्, इह शासने श्रामण्यं संपूर्णसंयमः तस्मिन् कर्तव्ये पूर्णे कृत्स्ने मूलोत्तरगुणान् पूर्वोक्तान् कथितवान् किं भूतोऽसौ ? - लवं कर्म तस्माद् अवसक्वइति अवसर्पणशीलो अवसर्पी श्रमण इति । अथ गोशालो वक्ति, मिति - यदहं ब्रवीमि हे आर्द्रक! त्वं श्रुणु ॥६॥ सउद सेवर बीकायं, आहाय कम्मं तह इत्थियाओ । एतचारिस्सिह अम्ह धम्मे, तवस्सिणो णाभिसमेइ पावं ॥७॥ 'सीउदगं त्ति' त्वया इदम् उक्तं यत् परार्थं प्रवृत्तस्य प्रातिहार्यपरिग्रहः शिष्यादिपरिकरो धर्मदेशना च न दोषाय इति यथा तथा अस्माकम् अपि एतन्न दोषाय यत् शीतोदकं सचित्तोदकं तत्सेवनं करोतु, बीजकायोपभोगं आधाकर्माऽऽश्रयणं स्त्रीप्रसङ्गं च करोतु, अनेन स्वपरोपकारः स्यादित्याह, एगंत ति - अस्मद्धर्मे प्रवृत्तस्य एकान्तचारिण: एकाकिविहारोद्यतस्य तपस्विनो नाभिसमेति न संबध्यते पापं, यद्यपि शीतोदकादीनि ईषत्कर्मबन्धाय तथाऽपि धर्माधारस्य शरीरस्य रक्षणाय क्रियमाणानि एकान्तचारितपस्विनः कर्मबन्धाय न भवन्ति इत्यर्थः ||७|| अस्योत्तरम् आह मुनि: - १ BD तत्संवरं द्वि. श्र. स्कन्धे षष्ठमध्ययनम्
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy