________________
एकांतमेव सारयति साधयति, यस्मात् तथार्च:- तथैव प्राग्वद् अर्चा लेश्या यस्य स तथा, रागद्वेषमुक्तत्वात् पूर्वं पश्चाच्च तुल्याशय इत्यर्थः, यदुक्तं - रागद्वेषौ विनिर्जित्य, किमरण्ये करिष्यसि ? | अथ नो निर्जितावेतौ, किमरण्ये करिष्यसि ? ॥ इति ॥४॥ धम्मं कहंतस्स उ णत्थि दोसो, खंतस्स दंतस्स जिइंदियस्स ।
साई दोसे विवजगस्स, गुणे य भांसाइ णिसेवगस्स ॥५॥
'धम्मं त्ति' - क्षान्तस्य अक्रोधस्य दान्तस्य मानरहितस्य जितेन्द्रियस्य निर्लोभस्य, लोभत्यागान्निर्मायस्य इत्यपि दृष्टव्यं, भाषादोषा असत्य-सत्यामृषा - कर्कशा - ऽसभ्यशब्दोच्चारणादयः तद्वर्जकस्य, भाषागुणा हित- मित- देश - कालाऽसंदिग्धभाषणादयः तन्निषेवकस्य सतो धर्मं कथयतोऽपि नास्ति दोष:, छद्मस्थस्य हि प्रायो मौनमेव श्रेयः, केवलिनस्तु भाषणमपि गुणाय इति ॥५॥ कीदृशं धर्मं वक्ति इत्याह
महव्वए पंच अणुव्वए य, तहेव पंचासवसंवरे य ।
विरइं इह सामणियंमि पुन्ने, लवावसकी समणे ति बेमि || ६ ||
'महव्वए त्ति' पञ्च महाव्रतानि साधूनां पञ्चाणुव्रतानि श्राद्धानां प्रज्ञापितवान्, तथैव पञ्चाश्रवान् प्राणातिपातादिरूपान्
-
१-२ ] भासाय ३ D दोषाः ४P आश्रय ५ पुणे
1180811