SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ श्री सूत्रकृताङ्गदीपिका द्वि.श्रु.स्कन्धे षष्ठमध्ययनम् एगंतमेवं अदुवा वि इण्हिं, दो वऽण्णमण्णं न समेंति जम्हा। पुव्विं च इण्डिं च अणागयं च, एगंतमेव पडिसंधयाइ ॥३॥ __ 'एगंतमेवंत्ति'- एकांतचारित्वं यदि शोभनं तदा तदेव सर्वदा कर्त्तव्यं, अथ चेदं साम्प्रतं परिकरबहुत्वं श्रेय: तदा पूर्वं तदेव कार्य,द्वे अपि एते वृत्ते छायाऽऽतपवन्नैकत्र समवायं गच्छतः, यस्मादेवं तस्मात् पूर्वापरविरोधः, एवं गोशालेन उक्ते आर्द्रकुमारः प्राह- पूर्वं यद् एकत्वं मौनव्रतिकत्वं च भगवतः, तच्छद्यस्थत्वाद् घातिकर्मक्षयार्थं, साम्प्रतं बहुपरिवारस्य यद् धर्मदेशकत्वं तत् शेषकर्मक्षयाय तीर्थकृन्नामकर्मवेदनार्थं च, ततः पूर्वम् इदानीम् अनागते च काले रागद्वेषरहितत्वात् एकत्वभावनया एकत्वमेव धर्म कथयन् प्रतिसन्दधाति, न तस्य पूर्वापरविरोधो अस्ति आशंसारहितत्वात्।।३॥ लाभार्थं देशनां करोति इत्याह समिच्च लोयं तसथावराणं, खेमंकरे समणे माहणे वा। आइक्खमाणो वि सहस्समज्झे, एगंतयं सारयई तहच्चे ॥४॥ 'समिच्चत्ति' - समेत्य लोकं यथाऽवस्थितं ज्ञात्वा त्रस-स्थावराणां क्षेमंकरो रक्षक: श्रमणो द्वादशधा तप:प्रवृत्तः, मा हणत्ति प्रवृत्तिः यस्य स माहनो ब्राह्मणो वा, समतया धर्म आचक्षाणो अपि मौनी इव वाक्संयत एव, तथा सहस्राणां मध्ये स्थितोऽपि
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy