SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ विहाय देवादिमध्यगतो धर्मम् आख्याति, तथा बहून् शिष्यान् उपनीय बहुशिष्यपरिवारं कृत्वा भवादृशमुग्धानाम् इदानीं पृथक् विस्तरेण धर्मम् आख्याति॥१॥ साऽऽजीविया पट्ठवियाऽथिरेणं, सभागओ गणओ भिक्खुमज्झे। आइक्खमाणो बहुजन्नमत्थे, न संधयाई अवरेण पुव्वं ॥२॥ _ 'साऽऽजीविया त्ति' - या भवद्गुरुणा देशना क्रियते सा आजीविकाप्रकर्षेण स्थापिता, एकाकी विहरन् लोकैः परिभूयत इति, यदुक्तं-छत्रं छात्रं पात्रं वस्त्रं यष्टिं च चर्चयति भिक्षुः। वेषेण परिकरेण च कियताऽपि विना न भिक्षाऽपि ॥ इति कृत्वा तेन परिवारः कृतः, तदनेन दम्भप्रधानेन जीविका) इदम् आरब्धं, किंभूतेन? - अस्थिरेण, पूर्वं मया सार्द्धं एकाकी अन्तप्रान्ताऽऽहारेण शून्यवनादौ वृत्तिं कृतवान्, न च तादृशं दुष्करम् अनुष्ठानं यावज्जीवं कर्तुमलं, ततो मां त्यक्त्वा बहून् शिष्यान् विधाय आडंबरेण चरति ततो अस्थिर: चपल: पूर्वाऽऽचारत्यागात्, तथा सभागतो अयं गणशो अनेकशो भिक्षुमध्ये स्थित आचक्षाणो बहुजनेभ्यो हितं बहुजन्यम् अर्थं कथयन् विहरति, अत एव अस्य चरित्रं पूर्वाऽपरेण न संदधाति, पूर्वाऽपरविरोधी इत्यर्थः ॥२॥ ॥१०५॥
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy