________________
श्री सूत्रकृताङ्गदीपिका
मुनि: आह
न दुक्करं वा णरपासमोयणं, गयस्स मत्तस्स वर्णमि रायं । एयं तु मज्झं पडिहाइ दुक्करं, बद्धस्स तक्कावलिएण तंतुणा ॥
न दुष्करम् एतन्नरपाशैः बद्धस्य गजस्य मत्तस्य विमोचनं वने राजन् !, एतत्तु मे प्रतिभाति दुष्करं यंत्तर्कुकावलितेन तंतुना बद्धस्य मम प्रतिमोचनमिति, स्नेहतन्तवो हि जन्तूनां दुश्छेदा भवन्ति इति भावः । आर्द्रमुनिकथा समाप्ता, साम्प्रतं सूत्रं व्याख्यायते तच्चेदम्पुरकडं अद्द ! इमं सुणेह, एगंतचारी समणे पुरासी ।
सेभिक्खवो उवणित्ता अणेगे, आइक्खतेहिं पुढो वित्रेणं ॥ १ ॥
'पुरेकडं त्ति' - यथा गोशालकेन सार्द्धं वादो अभूद् आर्द्रकुमारस्य तथा अस्मिन् अध्ययने कथ्यते, तं च आर्द्रमुनिं प्रत्येकबुद्धं श्रीवीरान्तिकम् आगच्छन्तं गोशालो अब्रवीद् यथा भो आर्द्रक! यदहं वदामि तत् श्रुणु, पुरा पूर्वं भवत्तीर्थकृता यत्कृतं तद्दर्शयति, एकान्ते जनरहितस्थाने चरतीति एकान्तचारी श्रमणः पुरा आसीत् तपश्चरणोद्यतः, सांप्रतं तु तपश्चारित्रनिर्भर्त्सितो मां
१ P वारणपास० २ 'यच्च तत्रावलितेन' इति टीकायां ३ B ०प्ता वृत्तितो विस्तरतो ज्ञेया साम्प्रतं० ४ JAM पुराकडं
द्वि. श्रु. स्कन्धे षष्ठमध्ययनम्