________________
एंच्चेएहिं ठाणेहिं, जिणुदिठेहिं संजए। धारयंते उ अप्पाणं, आमोक्खाए परिव्वएज्जासि ॥३४॥
(त्तिबेमि, अणायारसुत्तं पंचमज्झयणं सम्मत्तं ।) “एच्चेएहिं त्ति'- इत्येतैः अनेकान्तविधायिभि: स्थानैः जिनोद्दिष्टैः संयत आत्मानं धारयन् आत्मानं प्रवर्तयन् आमोक्षाय कर्मक्षयार्थं परिव्रजेत् संयमे प्रवर्तेत, इति: समाप्तौ, ब्रवीमीति पूर्ववत्।।३४।।
इति श्रीसूत्रकृताङ्गदीपिकायां द्वितीयश्रुतस्कन्धे अनाचारश्रुताऽऽख्यं पञ्चमाध्ययनं समाप्तम् ।।
अथ षष्टमार्द्रकीयाभिधानम् अध्ययनं प्रारभ्यते अथ षष्टाध्ययनम् आरभ्यते, तच्च आर्द्रकुमारकथासम्बद्धत्वाद् आर्द्रकीयाभिधानं, तत्कथा च इयम्
मगधदेशे वसंतपुरे सामायिको नाम कुटुंबी वसति, स वैराग्यत: श्रीधर्मघोषाऽऽचार्यपार्श्वे पत्नीयुतः प्रव्रज्यां गृहीत्वा साधुभिः सह विहरति, सो अन्यदा स्वपत्नीसाध्वी भिक्षाम् अटन्तीं दृष्ट्वा रागी जात:, स्वाऽभिप्रायः परस्य साधोः तेन निवेदितः, तेनाऽपि तत्प्रवर्तिन्याः, तयाऽपि तस्याः साध्व्याः, ततः स्वपतिम् अनुरक्तं ज्ञात्वा साध्व्या भक्तप्रत्याख्यानपूर्वम् आत्मा उबंधनं अकारि, मृत्वा स्वर्गम् अगात्, तदाकर्ण्य तत्पतिसाधु: अपि मायावी गुरुम् अनापृच्छ्य भक्तं प्रत्याख्याय दिवं गतः ।
तत: च्युत्वा आर्द्रपुरे नगरे आर्द्रकसुत आर्द्रकाऽभिधो जातः, साऽपि तत्पत्नी स्वर्गाच्च्युता वसन्तपुरे श्रेष्ठिपुत्री जाता, १ AM इच्चेएहिं २ B धारयंति
॥१०४