________________
श्री सूत्रकृताङ्गदीपिका
न निसृजेत्, यदुक्तं
+ अप्पत्तियं जेण सिया, आसु कुप्पिज्ज वा परो । सव्वसो तं न भासिज्जा, भासं अहियगामिणिं ॥ इति ॥ ३१ ॥
दीति समियाचारा, भिक्खुणो साहुजीविणो । ते य मिच्छोवजीवंति, इइ दिट्ठि न धारए ॥ ३२ ॥ 'दीसंति त्ति' - दृश्यन्ते समिताऽऽचाराः शास्त्रोक्ताऽऽचारपरा भिक्षवो भिक्षामात्रवृत्तयः साधुना विधिना जीवन्ति इति साधुजीविनः, तथाहि - क्षान्ता दान्ता जितेन्द्रिया जितकषाया: तायिनः तान् एवम्भूतान् मत्वा अपि एते मिथ्योपजीविन इति दृष्टि न धारयेत् न एवम् अभिप्रायं कुर्यात्, नाऽपि एवं वदेत्, यथा मिथ्योपचारप्रवृत्ता मायाविन एत इति, छद्मस्थेन हि एवम्भूतनिश्चय कर्तुम् अशक्यत्वाद् इति भावः, ते च स्वयूथ्या वा भवेयुः तीर्थान्तरीया वा, उभौ अपि न वक्तव्यौ साधुना, यदुक्तं- यावत् परगुणपरदोषकीर्तने व्यापृतं मनो भवति । तावद् वरं विशुद्धे ध्याने व्यग्रं मनः कर्तुम् ॥३२॥
दक्खिणाए पडिलंभो अत्थि वा नत्थि वा पुणो । न वियागरेज्ज मेहावी, संतिमग्गं च वूहए ॥ ३३ ॥
-
'दक्खिणा ' दानं दक्षिणा तस्याः प्रतिलम्भः प्राप्तिः दानलाभः सो अस्माद् गृहस्थादेः सकाशाद् अस्ति वा नास्ति वा इति न व्यागृणीयात् न वदेत् मेधावी, किन्तु शांतिमार्गं मोक्षमार्गं वूंहयेत् वृद्धिं प्रापयेत्, यथा मोक्षमार्गवृद्धिः भवति तथा वदेद् इत्यर्थः ॥ ३३ ॥
छाया: अप्रीतिकं येन स्यादाशु कुप्येद्वा परः । सर्वशस्तं न भाषेद, भाषां अहितगामिनीं ॥
द्वि. श्रु. स्कन्धे पञ्चममध्ययनम्