________________
गतैः कदाचिच्च असौ भवितव्यतावशात् तत्रैव विहरन् समागतः, पादचिह्नदर्शनाद् उपलक्षितश्च तया, ततः सा बाला सपरिवारा तत्पृष्टतो गता, आर्द्रकुमारोऽपि देवतावचनं स्मरन् कर्मोदयात् प्रतिभग्नः तया सार्द्धं भुनक्ति भोगान्, पुत्रो जातः, तत आर्द्रकेण उक्तंसांप्रतं ते पुत्रो द्वितीयो अभूत् निर्वाहकः, अहं स्वकार्यम् आचरामि, तया सुतज्ञापनार्थं कर्पासकर्त्तनम् आरब्धं, पृष्टं च पुत्रेण, किं मातरिदं आरब्धं भवत्या ?, सा प्राह वत्स ! तव पिता प्रव्रज्यां ग्रहीतुकामः, त्वं तु शिशुः अद्याऽपि द्रव्यार्जने असमर्थः, ततोऽहं अनाथा निन्द्यवृत्त्या अनया जीवनम् इच्छामि इति, तेन बालेन तत्कालोत्पन्नबुद्ध्या तत्कर्त्तितसूत्रेण क्वाऽयं मया बद्धो यास्यति इति मन्मनभाषिणा उपविष्ट एव पिता वेष्टितः, पित्रा चिन्तितं, यावन्तो अमी वेष्टनसूत्रतन्तवः तावन्ति वर्षाणि मया स्थातव्यं, तन्तवश्च द्वादश ततोऽसौ द्वादशवर्षाणि गृहे तस्थौ ।
ततः प्रव्रजितः सूत्रार्थनिपुण एकाकी विहरन् राजगृहं प्रति प्रस्थितः, तदन्तराले तद्रक्षणार्थं यानि प्राक् पित्रा पञ्च राजपुत्रशतानि मुक्तानि तानि कुमारे नष्टे राजभयात् तत्र अटव्यां चौर्येण जीवन्ति, तैश्च आर्द्रकमुनिः दृष्ट उपलक्षितश्च तेन पृष्टाः ते किमिदम् अनार्यं कर्म आरब्धं भवद्भिः ? तैश्च राजभयादिति कथितं मुनिवचनात् संबुद्धा: ते प्रव्रजिताः, तथा राजगृहनगरप्रवेशे गोशालको हस्तितापसा ब्राह्मणाश्च वादे पराजिताः, तथा आर्द्रकुमारदर्शनाद् एव हस्ती बन्धनाद् विमुक्तः, ते च हस्तितापसादय आर्द्रमुनिधर्मकथाऽऽक्षिप्ताः श्रीवीरपार्श्वे निष्क्रान्ताः राज्ञा ज्ञातस्वरूपेण पृष्टं, भगवन्! कथं त्वद्दर्शनतः करी बन्धनात् मुक्तः ? इत्युक्ते
॥१०३॥