SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ श्री सूत्रकृताङ्गदीपिका द्वि.श्रु.स्कन्धे षष्ठमध्ययनम् आर्द्रकोऽपि युवा परम् असुभग: संपन्नः, अन्यदा आकपित्रा जनहस्ते राजगृहे श्रेणिकराज्ञः प्राभृतं प्रेषितं, आर्द्रकुमारेण च श्रेणिकसुताय अभयकुमाराय स्नेहकरणार्थं प्राभृतं तस्यैव हस्ते प्रेषितं, जनो राजगृहे गत्वा श्रेणिकराज्ञ: प्राभृतानि निवेदितवान्, सन्मानितश्च राज्ञा, आर्द्रकप्रहितानि प्राभृतानि च अभयाय दत्तवान्, कथितानि स्नेहोत्पादकानि वचनानि, अभयेन अचिन्ति- नूनम् असौ भव्य: स्याद् आसन्नसिद्धिको यो मया सार्द्धं प्रीतिम् इच्छतीति, ततो अभयेन प्रथमजिनप्रतिमा बहुप्राभृतयुता आर्द्रकुमाराय प्रहिता, इदं प्राभृतं एकान्ते निरूपणीयम् इत्युक्तं जनस्य । सोऽपि आर्द्रकपुरं गत्वा यथोक्तं कथयित्वा प्राभृतम् आर्पयत्, प्रतिमा निरूपयत: कुमारस्य जातिस्मरणम् उत्पन्नम्, धर्मे प्रतिबुद्धं मनः, अभयं स्मरन् वैराग्यात् कामभोगेषु अनासक्तः तिष्ठति, पित्रा ज्ञातं मा क्वचिद् असौ यायादिति पञ्चशतसुभटैः नित्यं रक्ष्यते, आर्द्रकुमारो अपि अश्ववाहनिकायां निर्गत: प्रधानाऽश्वेन दूर गत्वा पलायित: तत: प्रव्रज्यां गृह्णन् देवतया निषिद्धोऽपि प्रव्रज्य अन्यतर- प्रतिमा प्रतिपन्नो वसंतपुरे कायोत्सर्गस्थो देवलोकच्युतया श्रेष्ठिपुत्र्या अन्यबालिकाभिः सह क्रीडन्त्या 'अयं मम भर्ता' इत्युक्ते सन्निहितदेवतया सार्द्धत्रयोदशकोटिमिता स्वर्णवृष्टिः कृता, राजा तत्सुवर्णं गृह्णन् देवतया वारितः, इदं स्वर्णं अस्या बालिकाया एव इत्युक्तं च, तत: तत्पित्रा गृहीतं स्वर्ण, अनुकूलोपसर्ग मत्वा आर्द्रमुनिः अन्यत्र गतः। पुत्रीवरणार्थं वरा: समायान्ति, पुत्र्या कथितं पितुः- एते वरा: स्वस्थानं यान्तु, अहं तु तस्मै दत्ता त्वया यत्संबंधि हिरण्यं भवता जगृहे, पित्रा उक्तं- त्वं तं जानीषे कथं ? तया उक्तं- तच्चरणगताभिज्ञानदर्शनात् जानामि, ततः सा दानशालायां स्थिता भिक्षार्थिनाम् आहारं दत्ते, ततो द्वादशवर्षे. १ जनहस्तेन इत्यर्थः २ हस्तेन इत्यर्थ: ३ BD oतया तया श्रेष्ठि०
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy