________________
कुरूपो धनी दरिद्र इत्यादि विश्ववैचित्री न स्यादिति ।।२९।। कल्लाणे पावए वा वि, ववहारो न विजई। जं वेरं तं न जाणंति, समणा बालपंडिया ॥३०॥ 'कल्लाणे त्ति' - सर्वथा अयं कल्याणवान्, अयं सर्वथा पापवान्, एवं एकान्ते व्यवहारो न विद्यते, एकांतपक्षाऽऽश्रयणेन यद् वैरं कर्मबंध: तत् श्रमणा: शाक्यादयो बाला: पण्डितमानिन: शुष्कतर्कदोन्मत्ता न जानन्ति ॥३०॥
असेसं अक्खयं वा वि, सव्वदुक्खे इ वा पुणो।
वज्झा पाणा न वज्झ त्ति, इइ वाईन नीसरे ॥३१॥ 'असेसं त्ति' - अशेषं सर्वं वस्तु सांख्याऽभिप्रायेण अक्षतं नित्यम् इति न ब्रूयात्, अपि शब्दाद्, अनित्यमपि न वदेत्, तथा सर्वं जगद् दुःखात्मकं इत्यपि न वदेत्, चारित्रादिपरिणते: सुखस्याऽपि दर्शनाद्, यदुक्तं - +तणसंथारनिवन्नो वि मुणिवरो भग्गरागमयमोहो । जं पावइ मुत्तिसुहं, कत्तो तं चक्कवट्टी वि ॥१॥ चौरपारदारिकादयो वध्या अवध्या वा इति न वदेत्, तथा चोक्तम्मार्जारव्याघ्रसिंहादीन्, सत्त्वव्यापादनोद्यतान् । दृष्ट्वा स्वार्थपर: साधुर्माध्यस्थ्यमवलम्बते । इति,
एवमन्योऽपि वाक्संयमो ज्ञेयो यथा 'असौ कुतीर्थिको बाल: किमपि न वेत्ति' इत्यादिकां परस्य अप्रीतिकारिणी भाषां १ BD वायं २ निसन्नो इति टीकायां ३BD एवमन्येऽपि, + छाया: तृणसंस्तारनिमग्नोऽपि मुनिवरो भग्नरागमदमोहः।
यत्प्राप्नोति मुक्तिसुखं, कुतस्तत् चक्रवर्त्यपि?।।
॥१०२।।