________________
श्री सूत्रकृताङ्गदीपिका
द्वि.श्रु.स्कन्धे पञ्चममध्ययनम्
नत्थि सेही नियं ठाणं, नेवं सन्नं निवेसए। अस्थि सेही नियं ठाणं, एवं सन्नं निवेसए॥२७॥
'नथि त्ति' - सिद्धेः- सर्वकर्मक्षयरूपाया निजं स्थानं सिद्धिशिलोपरियोजनचतुर्थक्रोशोपरितनषड्भागः, स नास्तीति संज्ञां न कुर्यात्, अस्ति सिद्धिः निजं स्थानं इति संज्ञां च कुर्यात्, आगमप्रमाणसिद्धत्वात्।।२७।। णत्थि साहू असाहू वा, नेवं सन्नं निवेसए। अत्थि साहू असाह वा, एवं सन्नं निवेसए॥२८॥
'णत्थि त्ति' नास्ति साधुः मुनिः संपूर्णचारित्रगुणाऽभावात्, तदभावे तद्विपरीतो असाधुः अपि नास्ति, एकस्य अभावे द्वितीयस्याऽपि अभावः, द्वयोः परस्परापेक्षित्वात्, एवं संज्ञां न निवेशयेत्, किन्तु अस्ति साधु: संपूर्णगुणसद्भावात्, तथा हि- सम्यगदृष्टेः अरक्तद्विष्टस्य सत्संयमवत: श्रुताऽनुसारेण आहारादिकं शुद्धबुद्ध्या गृह्णत: क्वचिद् अज्ञानाद् अशुद्धग्रहणसंभवेऽपि उपयुक्तस्य संपूर्णमेव रत्नत्रयाऽनुष्ठानमिति, तदेवं मुक्तिकृते प्रवर्त्तमानस्य साधुत्वम् इतरस्य असाधुत्वं मन्तव्यम् ॥२८॥ नत्थि कल्लाण पावे वा, नेवं सन्नं निवेसए। अस्थि कल्लाण पावे वा, एवं सन्नं निवेसए ॥२९॥
'नथि त्ति' वाञ्छितार्थप्राप्तिः कल्याणं, कल्याणवांश्च कश्चित् नास्ति, सर्वपदार्थानाम् असारत्वाद् विनश्वरत्वाच्च इति, पापं पापवान् वा कश्चित् नास्ति अद्वैतवादिमतेन आत्मानं विना सर्वस्य अभावात्, एवं संज्ञां न कुर्यात्, एकान्तेन सर्वभावानां असारत्व-विनश्वरत्वाभावाद् अस्ति कल्याणं, तद्वांश्च, अद्वैतमतस्य मिथ्यात्वात् पापं-पापवांश्च विद्यते, अद्वैते हि सुखी दुःखी सुरूप: १ BDO पेक्षत्वात्