________________
नत्थि चाउरंते संसारे, नेवं सन्नं निवेसए । अत्थि चाउरंते संसारे, एवं सन्नं निवेस ||२४||
'नत्थि त्ति' - नास्ति चतुरन्तः चत्वारो अन्ता गतिभेदा यत्र स चतुरन्तः चतुर्विधः संसारो नास्ति, देवनारकयोः अनुपलभ्यमानत्वात्, इति संज्ञां न निवेशयेत्, अस्ति चतुर्विधः संसारः, यतः सन्ति सुरनारकाः प्रकृष्टपुण्यपापफलभोगस्य अन्यथा अनुपपत्तेः, एवं संज्ञां निवेशयेत् ||२४||
देव देवी वा, नेवं सन्नं निवेसए । अत्थि देवो व देवी वा, एवं सण्णं निवेस ॥ २५ ॥ 'नत्थि त्ति' - नास्ति देवो देवी वा इति मतिं न कुर्यात्, अस्ति देवो वा देवी वा इति संज्ञां कुर्यात्, अत्र प्रकृष्टपुण्यफलभोग एव हेतुः ॥२५॥
सिद्धी असिद्धी वा, नेवं सन्नं निवेसए ।
अथ सिद्धी असिद्धी वा, एवं सन्नं निवेस ॥ २६ ॥
‘नत्थि त्ति' - नास्ति सिद्धिः कर्मक्षयरूपा, असिद्धिः संसाररूपा साऽपि नास्ति इति संज्ञां न निवेशयेत्, संसारचातुर्विध्यं पूर्वमेव उक्तं, कियतः कर्मक्षयस्य च पीडोपशमादिना प्रत्यक्षेण दर्शनात् कस्यचिद् आत्यन्तिककर्मक्षयोऽपि स्यात्, तस्माद् अस्ति सिद्धिः, असिद्धिः अपि अस्ति इति संज्ञां कुर्यात् ॥ २६ ॥
॥१०९॥