________________
श्री सूत्रकृताङ्गदीपिका
माया व लोभे वा, नेवं सण्णं निवेसए ।
अत्थि माया व लोभे वा, एवं सण्णं निवेसए ॥ २१ ॥
'नत्थि त्ति' - मायालोभौ न स्तः इति संज्ञां न निवेशयेत्, मायालोभयोः निषेधः पूर्ववत्, प्रत्यक्षदृश्यत्वात् मायालोभौ स्तः इति संज्ञां निवेशयेत् ॥ २१ ॥
पिज्जे व दोसेवा, नेवं सण्णं निवेसए । अत्थि पिज्जे व दोसे वा, एवं सण्णं निवेस | | २२ ॥ 'नत्थि त्ति'- प्रीति: प्रेम पुत्र - कलत्र - धनादिषु रागः, तद्विपरीतो द्वेषः, तौ न स्तः यतो मायालोभौ एव रागः, क्रोधमानौ एव द्वेषः, तस्मात् रागद्वेषौ न स्तः, अस्ति प्रेम, द्वेषोऽपि अस्ति इति संज्ञां कुर्यात्, यस्माद् रागो अवयवी मायालोभौ अवयवा तथा द्वेष अवयवी क्रोधमानौ अवयवौ, अवयवी च अवयवेभ्यः कथञ्चिद् भिन्नो अभिन्नश्च तस्मात् मायालोभश्च प्रेमद्वेषश्च कथञ्चिद् अस्ति इति स्वीकार्यम्||२२||
र्णत्थि रागे व दोसेवा, नेवं सन्नं निवेसए । अत्थि रागे व दोसे वा, एवं सन्नं निवेस ॥ २३ ॥
' णत्थि त्ति' - रागद्वेषौ न स्तः इति न स्वीकार्य, तौ विद्येते इति मतिः कार्या युक्तिः पूर्वोक्ता ॥ २३ ॥
१ अयं श्लोक: JAM प्रतिषु
भ्
द्वि. शु. स्कन्धे पञ्चममध्ययनम्