SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ 'नथि त्ति'- सांख्यादीनां सर्वव्यापकत्वाद् आत्मनो व्योम्न इव परिस्पन्दाऽऽत्मिका क्रिया न विद्यते, बौद्धानां तु क्षणिकत्वात् । सर्वभावानां प्रतिक्षणम् उत्पत्तिः एव, न अन्या काचित् क्रिया, तथा सर्वपदार्थानां प्रतिक्षणम् अवस्थाऽन्तरगमनात् सक्रियत्वमेव, अतो अक्रिया न विद्यते, एवं संज्ञां न कुर्यात्, किन्तु अस्ति क्रिया अक्रिया वा इति संज्ञां कुर्यात्, यतः क्रियाऽभावे जीवस्य व्योम्न इव बन्धमोक्षाऽभावः प्रेसज्येत, बौद्धानामपि प्रतिक्षणोत्पत्तेः क्रिया एव, ततो अस्ति क्रिया, तद्भावे च तद्विपक्षभूता अक्रिया अपि अस्ति इति॥१९॥ नत्थि कोहे व माणे वा, नेवं सण्णं निवेसए। . अत्थि कोहे व माणे वा, एवं सणं निवेसए ॥२०॥ __'नथि त्ति- नास्ति क्रोधः, स हि मानांश एव, क्षपकश्रेण्यां च भेदेन क्षपणानजीकारात्, तथा क्रोधः किं आल्यो धर्मः किं वा कर्मण उत अन्यस्य? तत्र आत्मधर्मत्वे सिद्धानामपि क्रोधोदयप्रसङ्गः, अथ कर्मणः ततः तदन्यकषायोदयेऽपि तदुदयप्रसङ्गात्, अन्यधर्मत्वे अकिञ्चित्करत्वम् अतो नास्ति क्रोधः, एवं मानाभावोऽपि वाच्यः इत्येवं नाङ्गीकुर्यात्, यतः क्रोधाऽऽध्मातः पुरुषः प्रत्यक्षेणैव उपलभ्यते, न अयं मानांशो निमित्तभेदात्, तथा जीवकर्मणो: द्वयोः अपि अयं धर्मः, ततः पूर्वोक्तप्रत्येकदोषाऽसंभवः, ततः क्रोधो मानश्च अस्ति इति संज्ञां निवेशयेत्।।२०॥ १० सर्वथा व्यापकत्वाद् २१ प्रसज्यते ॥१००॥
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy