________________
श्री सूत्रकृताङ्गदीपिका
द्वि.श्रु.स्कन्धे
पञ्चममध्ययनम्
नत्थि वेयणा निजरावा, नेवं सन्नं निवेसए। अत्थि वेयणा निजरा वा, एवं सन्नं निवेसए ॥१८॥
'नत्थि त्ति'- वेदना कर्माऽनुभवनरूपा, निर्जरा कर्मपुद्गलशा टरूपा, एते द्वे अपि न स्तः, यतः पल्योपम-सागरोपमशतवेद्यं कर्म अंतर्मुहुर्तनैव क्षयं याति- यदुक्तं
+जं अन्नाणी कम्मं खवेइ बहुयाहिं वासकोडीहिं । तं नाणी तिहिं गुत्तो खवेइ उसासमित्तेणं ॥ इत्यादि,
तथा क्षपकश्रेण्यां शीघ्रमेव कर्मणः क्षयात्, यथा क्रमबद्धस्य अनुभवाऽभावे वेदनाया अभावः तदभावे च निर्जरायो अपि अभाव:, इत्येवं न अङ्गीकुर्यात्, यतः कस्यचिद् एव कर्मण एवम् उक्तनीत्या क्षयः, अन्यस्य तु प्रदेशानुभवेन भोगसद्भावाद् अस्ति वेदना, यदुक्तम्- + पुट्विं दुच्चिन्नाणं दुप्पडिकंताणं कम्माणं । वेइत्ता मोक्खो नत्थि अवेइत्ता ॥ इत्यादि, वेदनासद्भावे च निर्जरा अपि अस्ति इति स्वीकुर्यात् ॥१८॥
नत्थि किरिया अकिरिया वा, नेवं सन्नं निवेसए।
अस्थि किरिया अकिरिया वा, एवं सन्नं निवेसए ॥१९।। १Doशाटनकरूपा, + छाया-यदज्ञानी कर्म क्षपयति बहुकाभि: वर्षकोटिभिः। तज्ज्ञानी त्रिभिप्तः क्षपयति उच्छवासमात्रेण।। २P तिहि, ३D अभावात् तथाभावे, + छाया: पूर्वं दुश्चीर्णानां दुष्प्रतिक्रान्तानां कर्मणां । वेदयित्वा मोक्षो नास्ति अवेदयित्वा ॥