________________
न सन्ति जीवा अजीवा वा, इति संज्ञा न निवेशयेत्, सन्ति जीवा अजीवाश्च इति संज्ञां कुर्यात्॥१३॥ नत्थि धम्मे अधम्मे वा, नेवं सण्णं निवेसए। अत्थि धम्मे अधम्मे वा, एवं सन्नं निवेसए॥१४॥
'नत्थि त्ति'- नास्ति धर्मः श्रुतचारित्रात्मकः, नास्ति वा अधर्मो मिथ्यात्वा-ऽविरति- प्रमाद- कषाय-योगरूपः, एवं संज्ञा न कुर्यात्, अस्ति धर्मो अधर्मो वा एवं संज्ञां कुर्यात्।।१४।।
नत्थि बंधे व मुक्खे वा, नेवं सण्णं निवेसए। अत्थि बंधे व मुक्खे वा, एवं सण्णं निवेसए ॥१५॥ 'नत्थि त्ति'- नास्ति बंधो मोक्षो वा इति संज्ञां न कुर्यात् *बंधमोक्षसद्भावम् अङ्गीकुर्यात् ॥१५॥ नत्थि पुन्ने व पावे वा, नेवं सण्णं निवेसए। अत्थि पुन्ने व पावे वा, एवं सण्णं निवेसए॥१६॥
'नत्थि ति'- नास्ति पुण्यं सत्कर्म, नास्ति पापं असत्कर्म, इति नाङ्गीकार्यम्, तयोः अस्तित्वं मन्तव्यम् ॥१६॥ नत्थि आसवे संवरे वा, नेवं सन्नं निवेसए। अत्थि आसवे संवरे वा, एवं सन्नं निवेसए।।१७।। 'नथि त्ति'- आश्रवसंवरसद्भावो अङ्गीकार्य इति ॥१७॥
॥९१॥
** एतदन्तर्गत: पाठ: BD प्रत्यो: नोपलभ्यते १D आसव,