SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ श्री सूत्रकृताङ्गदीपिका द्वि.श्रु.स्कन्धे पञ्चममध्ययनम् अस्तीति, सांख्याभिप्रायेण सत्वरजस्तमोरूपाया: प्रकृते: एकत्वात् तस्या एव हि सर्वस्य कारणत्वात् सर्वं सर्वात्मकं, एवं सति सर्वत्र घटपटादौ अन्यस्य व्यक्तस्य वीर्यम् शक्तिः अस्ति, सर्वस्य व्यक्तस्य प्रकृतिकार्यत्वात् कार्यकारणयोश्च एकत्वात् सर्वत्र सर्वस्य वीर्यं अस्ति इति संज्ञां न कुर्यात्, तथा सर्वे भावा: स्वस्वशक्तियुक्ता इति न सर्वस्य सर्वत्र शक्ति: इत्यपि संज्ञां न कुर्यात्, भेदाभेदरूपत्वात् सर्वभावानामिति ॥१०॥ एएहिं दोहिं ठाणेहिं, ववहारो न विजई। एएहिं दोहिं ठाणेहिं, अणायारं तु जाणए ॥११॥ ‘एएहिं त्ति-' द्वाभ्याम् एताभ्यां सर्वस्य सर्वत्र शक्तिः अस्ति नास्ति वा इति, अथवा शरीराणां सर्वषां भेदो अभेदो वा इति द्वाभ्यां स्थानाभ्यां व्यवहारो न विद्यते युक्तयो न सङ्गच्छन्ते इत्यर्थः, एतयोः स्थानयोः प्रवृत्तस्य अनाचार जानीयात् ॥११॥ नत्थि लोए अलोए वा, णेवं सन्नं निवेसए । अस्थि लोए अलोए वा, एवं सन्नं निवेसए ॥१२॥ 'नथि त्ति'- शून्यवादिमताभिप्रायेण नास्ति लोकः, अलोकोऽपि नास्ति इति संज्ञां न निवेशयेत् न स्थापयेत्, अस्ति लोक: पञ्चास्तिकायात्मकः, अस्ति च अलोक आकाशाऽस्तिकायमात्रः, इति संज्ञां निवेशयेत् ॥१२॥ नत्थि जीवा अजीवा वा, नेवं सण्णं निवेसए। अत्थि जीवा अजीवा वा, एवं सन्नं निवेसए॥१३॥ १ कार्यस्य इत्यर्थ: २ BD 'सर्वत्र' इति नास्ति
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy