SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ - आधाकर्माणि ये भुञ्जन्ते अन्योऽन्यं परस्परं, तान् स्वकीयेन कर्मणा उपलिप्तान् *जानीयात् इति न वदेत् अनुपलिप्तान्* वा(इति) न वदेत्, आधाकर्माऽपि श्रुतोपदेशेन शुद्धमिति कृत्वा भुञ्जानस्य न बन्धः, श्रुतोपदेशं विना आहारगृद्ध्या आधाकर्म भुञ्जानस्य तु बन्धः, तस्माद् आधाकर्मभोगे कर्मबन्ध: स्यात् न स्याद् वा इति वदेत् ॥८॥ एएहिं दोहिं ठाणेहिं, ववहारोन विजई। एएहिं दोहिं ठाणेहिं, अणायारं तु जाणए॥९॥ 'एएहिं त्ति'- आधाकर्मभोगे कर्मबन्ध: स्यादेव, न स्यादेव इति द्वाभ्यां स्थानाभ्यां व्यवहारो न विद्यते, द्वाभ्यां स्थानाभ्यां स्वीकृताभ्याम् अनाचारं जानीयात् ॥९॥ जमिदं ओरालमाहारं, कम्मगं च तहेव य। सव्वत्थ वीरियं अस्थि, णत्थि सव्वत्थ वीरियं ॥१०॥ 'जमिदं त्ति'- यदिदं औदारिकं शरीरम् आहारकं च, एतद् ग्रहणाद् वैक्रियमपि ग्राह्यं, कार्मणं तथा तैजसमपि, एतेषां शरीराणाम् ऐक्यमेव तैजसकार्मणयोः अभिन्नत्वात्, तत: त्रयाणाम् एकत्वमेव इति नो वदेत् इति अग्रेतनश्लोके सम्बन्धः, तथा शरीराणां सर्वेषां सर्वथा भेद एव इत्यपि नो वदेत्, कथञ्चिद् एकत्वस्याऽपि अङ्गीक्रियमाणत्वात्, तथा सव्वत्थत्ति- सर्वं सर्वत्र ** एतदन्तर्गत: पाठ: P प्रतौ नास्ति ॥९॥
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy