SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ श्री सूत्रकृताङ्गदीपिका द्वि.श्रु.स्कन्धे पञ्चममध्ययनम् एएहिं दोहिं ठाणेहिं, ववहारो न विजई। एएहिं दोहिं ठाणेहिं, अणायारं तु जाणए॥७॥ 'एएहिं त्ति' एताभ्यां तुल्याऽतुल्यवैररूपाभ्यां स्थानाभ्यां व्यवहारो न विद्यते, अध्यवसायस्यैव बन्धाऽबन्धहेतुत्वात्, एताभ्यां द्वाभ्यां स्थानाभ्यां प्रवृत्तस्य अनाचार जानीयात्, तथा हि नहि जीववधे हिंसा स्यात् तस्य नित्यत्वात्, किन्तु इन्द्रियादिघातात्, यदुक्तं पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छ्वासनि:श्वासमथाऽन्यदायुः । प्राणा दशैते भगवद्भिः उक्ता-स्तेषां वियोजीकरणं तु हिंसा ॥ इति, किञ्च, भावापेक्ष एव कर्मबन्धो, यथा वैद्यस्य सम्यक्रियां कुर्वतो यद्यपि रोगी म्रियते तथाऽपि न वैद्यस्य कर्मबन्धो, दुष्टाध्यवसायाभावात्, अन्यस्य तु सर्पबुद्ध्या रज्जुमपि नतो भावदोषात् कर्मबन्धः, यदागम: + 'उच्चालियंमि पाए, इरियासमियस्स संकमट्ठाए । वावज्जिज्ज कुलिंगी, मरिज तज्जोगमासज्ज । न य तस्स तन्निमित्तो बंधो सुहमो वि देसिओ समए । अणवज्जो उ पओगेण, सव्वभावेण सो जम्हा ॥ इत्यादि ॥७॥ अहाकडाणि भुंजंति, अण्णमण्णे सकम्मुणा। उवलित्ते ति जाणिज्जा, अणुवलित्ते ति वा पुणो॥८॥ + छाया :उच्चालिते पादे ईर्यासमितस्य संक्रमार्थम् । व्यापद्येत कुलिंगी म्रियेत तद्योगमासाद्य । न च तस्य तन्निमित्तो बन्धः सूक्ष्मोऽपि देशित: समये । अनवद्यस्तु प्रयोगेण सर्वभावेण सो यस्मात् ॥
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy