SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ 'एएहिं त्ति'- शास्तार: क्षयं यास्यन्ति शाश्वता वा भविष्यन्ति इति, यदि वा सर्वे प्राणा विलक्षणा: सदृशा वा, तथा ग्रन्थिकसत्त्वा एव तद्रहितं वा जगद् इति वा, एवं अनयोः स्थानयोः व्यवहारो न विद्यते, इदं पक्षद्वयमपि न घटते इत्यर्थः, यतो अनागतकालस्य इव भव्यानाम् अनंतत्वात् निरन्तरं मुक्तिगमनेऽपि न भव्यशून्यं जगदिति, केचिद् भव्या अपि सामन्यभावात् न सेत्स्यन्ति, यथा प्रतिमायोग्यमपि दलिकं सामग्री विना प्रतिमारूपं न स्यादिति, सर्वे जीवा अपि विचित्रकर्मसद्भावाद् विसदृशाः कथंचित्, उपयोगाऽमूर्तत्वाऽसंख्यप्रदेशत्वादिधर्मैः सदृशा अपि, तथा सर्वे अर्हन्त: प्रवाहाऽपेक्षया शाश्वताः, एकैकाऽपेक्षया अशाश्वता अपि इति एताभ्यां द्वाभ्याम् एकांतस्थानाभ्याम् अनाचारं जानीयात् ॥५॥ जे केइ खंडगा पाणा, अदुवा संति महालया। सरिसं तेहिं वेति, असरिसं ति नो वए॥६॥ ___ 'जे केइत्ति' ये केचित् क्षुद्रा: प्राणिन एकेन्द्रिय-द्वीन्द्रियादयो अल्पकाया वा पञ्चेन्द्रियाः, अथवा महालया महाकाया: सन्ति, तेषां क्षुद्राणां कुंथ्वादीनां महतां हस्त्यादीनां च हनने सदृशं वैरं कर्मबंध: तुल्य इति एकान्तेन नो वदेत्, असदृशं वा तद्घाते वैर-कर्मबंध: इन्द्रिय-ज्ञान-कायानां विचित्रत्वात् इत्यपि नो वदेत्, न हि वध्यवशात् कर्मबन्धः किन्तु अध्यवसायवशात्, तीव्राऽध्यवसायाद् अल्पं अपि सत्वं नतो महान कर्मबन्धः, अकामस्य तु महाकायप्राणिहननेऽपि स्वल्पबन्ध इत्यर्थः ॥६॥ १ AM खुद्दगा ICKETHAKTETTTTISTKAT THAT ॥२७॥
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy