________________
श्री सूत्रकृताङ्गदीपिका
द्वि.श्रु.स्कन्धे पञ्चममध्ययनम्
एएहिं दोहिं ठाणेहिं, ववहारो न विजई। एएहिं दोहिं ठाणेहिं, अणायारं तु जाणए ॥३॥
'एएहिं त्ति'- एताभ्याम् एकान्तनित्यम् एकान्तम् अनित्यं वा इति द्वाभ्यां स्थानाभ्यां व्यवहारो न विद्यते एकान्तनित्ये एकान्ताऽनित्ये च वस्तुनि व्यवहारो-व्यवस्था न घटते इत्यर्थः, तस्माद् एताभ्यां स्थानाभ्यां स्वीकृताभ्याम् अनाचार जानीयात्॥३॥
समुच्छिहिंति सत्थारो, सव्वे पाणा अणेलिसा। गंठिगा वा भविस्संति, सासयं ति च नो वए ॥४॥
'समुच्छिहिंति त्ति'- समुच्छेत्स्यन्ति उच्छेदं यास्यन्ति शास्तारो भव्याः, सर्वभव्यानां मुक्तिगमनेन भव्यशून्यो लोक: स्यात्, इत्येवं नो वदेत, तथा सर्वे प्राणा अनीद्दशा विसद्दशा विलक्षणा एव, न कथञ्चित् तेषां सादृश्यम् अस्ति इत्यपि नो वदेत्, ग्रन्थिका: कर्मग्रन्थोपेता एव भविष्यन्ति सर्वे जीवा इत्यपि नो वदेत्, कोऽर्थः? सर्वे प्राणिनः सेत्स्यन्ति एव कर्मावृता वा भविष्यन्ति इति एकापि पक्षम् एकान्तेन न वदेत्, तथा शाश्वता: तीर्थकृत इत्यपि न वदेत्।।४।।
एएहिं दोहिं ठाणेहिं, ववहारो न विजई। एएहिं दोहिं ठाणेहिं, अणायारं तु जाणए ॥५॥
१J समुच्छिज्जिहिंति २४व