________________
अथ पञ्चममनाचारश्रुताऽध्ययनप्रारम्भ:
अथ पञ्चमाध्ययनम् आरभ्यते, तस्य अनाचारवर्जनकथनाद् अनाचारश्रुतमिति नाम अथवा आचारप्रतिपादकत्वाद् आचारश्रुतम् इति नाम, तस्येदं सूत्रम्
आदाय बंभचेरें, आसपन्ने इमं वइं। अस्सिं धम्मे अणायारं. नायरेज कयाइ वि ॥१॥
आदाय त्ति- ब्रह्म-सत्याऽनुष्ठानं चर्यते-सेव्यते यस्मिन् तद् ब्रह्मचर्यं जैनेन्द्रशासनम् आदाय गृहीत्वा आशुप्रज्ञ: पंडित इमां वक्ष्यमाणां वाचं 'इदं जगत् शाश्वतमेव' इत्यादिकां न आचरेत् न वदेत्, तथा अस्मिन् धर्मे स्थितो अनाचारं न आचरेत् कदाचिदपि।शा
अणादीयं परिण्णाय, अणवदग्गे इ वा पुणो। सासयमसासए वां वि, इइ दिठिं न धारए ॥२॥
अणादियं त्ति- अनादिकं जगत् प्रमाणैः सांख्याऽभिप्रायेण परिज्ञाय अनवदनं अनन्तं तन्मते एव ज्ञात्वा सर्वमिदं शाश्वतं, बौद्धाऽभिप्रायेण वा अशाश्वतम् इति दृष्टिं न धारयेत् एनं पक्षं नाऽऽश्रयेत्।।२।। १ JAM ०चेर य २४ या वि AM वा
॥९६॥