________________
श्री सूत्रकृताङ्गदीपिका
द्वि.श्रु.स्कन्धे पञ्चममध्ययनम्
षड्जीवनिकाया नरकादिगतिहेतुत्वेन उक्ता: तथा विरतस्य ते एव मोक्षहेतवो भवन्ति, यदुक्तं
*जे जत्तिया य हेऊ, भवस्स ते चेव तत्तिया मोक्खे । गणणाईया लोया, दोण्ह वि पुन्ना भवे तुल्ला ॥ इति,
से जहत्ति- तद्यथा नाम मम असातं दुःखं दंडादिना तोद्यमानस्य पीड्यमानस्य भवति, रोमोत्खननमात्रमपि दुःखम् अहं प्रतिसंवेदयामि अनुभवामि तत इत्येवं जानीहि त्वं, सर्वेऽपि जीवा दंडादिना ताड्यमाना दुःखिनः स्युः, रोमोत्खननमात्रमपि दुःखम् अनुभवन्ति, एवं ज्ञात्वा सर्वे प्राणा न हंतव्याः, एस धम्मेत्ति- एष धर्मो ध्रुवो नित्यः परिणामाऽनित्यतायां अपि सत्यां स्वरूपाऽच्यवनात्, तथा सूर्योद्गति: इव शश्वद् भवनात् शाश्वत:, समेत्य अवगम्य लोकं चतुर्दशरज्जुमितं खेदज्ञैः सर्वज्ञैः प्रवेदितः, तदेवं स भिक्षुः निवृत्तः सर्वाऽऽश्रवेभ्यो दन्तप्रक्षालनं न कुर्यात्, न नेत्राञ्जनं न वमनविरेचनादि वस्त्रधूपनं च न आदत्ते, स भिक्षुः क्रोधादिरहितो अलूषको अहिंसको यावद् एकान्तेन पण्डितो भवतीति, ब्रवीमीति पूर्ववत् ॥११॥
इति तंपा० पंडितहर्षकुलप्रणीतायां श्रीसूत्रकृताङ्गदीपिकायां
द्वितीयश्रुतस्कंधस्य चतुर्थाध्ययनं समाप्त।।
* छाया: ये यावन्तो हेतवश्व, भवस्य ते तावन्तश्चैव मोक्षस्य । गणनाऽतीता लोका, द्वयोरपि पूर्णा भवेयुः तुल्याः।। १B तपागच्छाधिपति० D तपागच्छीय०