________________
तेसिं च णं एगईए सड्ढी-भवइ, कामं तं समणा य माहणा य पहारिंसु गमणाए, तत्थ अण्णतरेणं धम्मेणं पन्नत्तारो वयं एतेणं धम्मेणं पण्णावइस्सामो, एवमायाणध भयंतारो जधा मे एस धम्मे सुअक्खाए सुपन्नत्ते भवति ॥१४॥ तेषां मध्ये कश्चिदेवैक: श्रद्धावान् धर्मलिप्सुः भवति, कामं निश्चितं तं श्रद्धावन्तं श्रमणा ब्राह्मणा वा तदन्तिकगमनाय प्रधारितवन्त: तत्प्रतिबोधाय तत्समीपे गमनं चिंतितवन्तः, तत्रान्यतरेण धर्मेण स्वसमयप्रसिद्धेन प्रज्ञापयितारो वयमिति विचिंत्य तं राजानं स्वकीयेन धर्मेण प्रज्ञापयिष्याम एवं संप्रधार्य राजांतिकं गत्वा एवमूचुः, यथाऽहं वदामि एवं भवन्तो यूयं जानीत, यथा येन प्रकारेण मयैष धर्मः स्वाख्यात: सुप्रज्ञप्तो भवतीत्येवं तीर्थिक: स्वमतानुरागी राजादे: स्वाभिप्रायेणोपदेशं ददाति ॥१४॥ तत्राद्यः पुरुषस्तज्जीवतच्छरीरवादी राजानं उद्दिश्य एवं धर्मदेशनां चक्रेतं जहा उड्ढं पायतला अहे केसग्गमत्थया तिरियं तयपरियंते जीवे, एस आया पजवे कसिणे एस जांव जीवति, एस मए नो जीवइ, सरीरे धरमाणे धरई विणठेमि य णो धरइ, एयंतं जीविअं भवइ आदहणाए परेहिं णिज्जति अगणिज्झामिए सरीरे कवोयवन्नाणि अट्ठीणि भवंति,
॥७॥
(१) JAM जीवे