________________
श्री सूत्रकृतामदीपिका
द्वि.श्रु.स्कन्धे प्रथमाध्ययनम्
उहयसत्तू निहयसत्तू मलियसत्तू उद्धियसत्तू (निजियसत्तू) पराइअसत्तू ववगयदुभिक्खमारिभयविप्पमुक्कं रायवण्णओ जहोववाइए जाव पसंतडिंबडमरं रजं पसासेमाणे विहरइ, तस्स णं रन्नो परिसा भवइ, तं- उग्गा उग्गपुत्ता भोगा भोगपुत्ता इक्खागाइ इक्खागाइपुत्ता णाया णायपुत्ता कोरव्वा कोरव्वापुत्ताभडा भडपुत्तामाहणामाहणपुत्ता लिच्छई लिच्छइपुत्ता पसत्थारोपसत्थारपुत्ता सेणावई सेणावइपुत्ता ॥१३॥ 'इहेत्ति' इह अस्मिन् लोके, 'खलुः वाक्यालंकारे' प्राच्या प्रतिच्या दक्षिणायाम् उदिच्या अन्यतरस्यां वा दिशि, सन्ति विद्यन्ते एके केचन मनुष्या भवन्ति, आनुपूर्येण इमं लोकं आश्रित्योत्पन्नाः, तद्यथा, आर्या: आर्यदेशोत्पन्नाः, तदन्ये अनार्याः, एके उच्चैर्गोत्रा, नीचैर्गोत्रा एके, कायो- महाकाय: प्रांशुत्वं तद्विद्यते येषां ते कायवंतो, ह्रस्ववंतो वामनकुब्जादयः, सुवर्णाः शोभनकांतयो, दुर्वर्णाः कृष्णरूक्षादिवर्णा, एके सुरूपा, एके दुष्टरूपाः, तेषां मध्ये महान् कश्चिदेको राजा भवति, किं भूत: ? महाहिमवन्मलयमंदरमहेंद्राणामिव सारं -सामर्थ्यं धनं वा यस्य स तथा, इत्येवं राजवर्णको यावत् उपशांतडिंबडमरं राज्यं प्रसाधयन् तिष्ठति, तत्र डिंब परानीकभयं, डमरं स्वराष्ट्रक्षोभः, तस्य च राज्ञः पर्षत् सभा भवति, तद्यथा, उग्रा: तत्कुमाराश्च उग्रपुत्राः, एवं भोगपुत्रादयोऽपि ज्ञेयाः, लेच्छइत्ति, लिप्सुको वणिग् इत्यर्थः, प्रशास्तारो- बुद्ध्युपजीविनो मंत्र्यादय: सेनापतयश्च एके ॥१३॥ (8) JAM पसत्थपुत्ता