________________
श्री सूत्रकृताङ्गदीपिका
द्वि.श्रु.स्कन्धे चतुर्थमध्ययनम्
तु एकेन्द्रियादयोऽपि मनुष्यादयः स्युः परं भव्याऽभव्यत्ववद् न नियमः, भव्याऽभव्यत्वे हि न कर्मायत्ते, अतो न ताभ्यां व्यभिचारः, ये पुन: कर्मवशगा: ते संज्ञिनो भूत्वा अन्यत्र असंज्ञिनः स्युः, असंज्ञिनश्च भूत्वा संज्ञिन इति, तत्र यत्कर्म बद्धम् अस्ति तस्मिन् सत्येव तद् अविविच्य अपृथक्कृत्य अविधूय असमुच्छिद्य अननुताप्य, एते चत्वारोऽपि शब्दा एकार्थिकाः, तदेवम् अत्यक्तकर्माणो असंज्ञिकायात् संज्ञिकायं संक्रामन्ति, संज्ञिकायाद् असंज्ञिकायं च, संज्ञिकायात् संज्ञिकायम्, असंज्ञिकायाद् असंज्ञिकायं च, एवं चत्वारो भङ्गाः, उपसंहरन् आह, जे एते जीवत्ति- ये एते पर्याप्ता अपर्याप्ता संज्ञिनो असंज्ञिनो वा, सर्वे ते मिथ्याऽऽचारा अविरतत्वात्,
तथा सर्वजीवेषु नित्यं प्रशठव्यतिपातचित्तदंडाः स्युः, एवंभूताश्च प्राणातिपातादिषु सर्वेषु अपि आश्रवद्वारेषु वर्तन्त इति, एवं खलु Ka त्ति- एवं उक्तनीत्या खलु निश्चितं भगवता आख्यातम् इत्यादिना पूर्वोक्तम् अनुवदति यावत् पापं कर्म क्रियत इति॥१०॥ ___अथ सञ्जातवैराग्य: शिष्यः प्रश्नं करोति
से किं कुव्वं किं कारं कहं संजय-विरय-पडिहयपच्चक्खायपावकम्मे भवइ? आचार्य आहतत्थ खलु भगवया छज्जीवनिकाया हेऊ पन्नत्ता तं (जहा)- पुढविकाइया जाव तसकाइया, से जहाणामए मम अस्सायं दंडेण वा अट्ठीण वा मुट्ठीण वा लेलुण वा कवालेण वा आतोदिजमाणस्स १Pसंज्ञाय० २P'मुट्ठीण वा' इति नास्ति