________________
श्री सूत्रकृताङ्गदीपिका
से द्वि.श्रु.स्कन्धे की चतुर्थमध्ययनम्
अप्पडिविरया भवंति॥९॥
ये इमे असंज्ञिन: तद्यथा पृथ्वीकाया यावद् वनस्पतिकायाः, तथा षष्टा अप्येके त्रसा: यावत् सम्मूर्छिमपञ्चेन्द्रिया: ते सर्वेऽपि अंसज्ञिनो, येषां न तर्को विचारः, न संज्ञा दीर्घकालसम्बन्धिनी, न प्रज्ञा स्वबुद्धिकृता, न मनो अवग्रहादिमति:, न वाक् स्पष्टवर्णा, तथा स्वयं करोमि अन्यैः कारयामि कुर्वन्तं अनुजानामि इति अभिप्रायो नास्ति इति ते असंज्ञिनो बालाः सर्वेषां जीवानां घातनिवृत्तेः अभावात् योग्यतया घातका एव, असत्यभाषका अपि अविरतत्वात्, अदत्तग्राहिणोऽपि दध्यादिभक्षणात्, तीव्रनपुंसकवेदोदयात् मैथुननिवृत्तेः अभावाच्च मैथुनप्रवृत्ताः, परिग्रहवन्तोऽपि अशनादेः स्थापनात्, एवं क्रोध-मान- माया-लोभा यावत् मिथ्यादर्शनशल्यसद्भावश्च तेषां ज्ञेयः, ततश्च ते कर्मबन्धकाः स्युः, तथा यद्यपि ते विशिष्टमनोवाग्व्यापाररहिता: तथाऽपि सर्वजंतूनां दुक्खणयाए त्ति- दुःखोत्पादनतया, शोचनतया शोकोत्पादनकत्वेन, जूरणं वयोहानिः तत्करणतया, त्रिभ्यो मनोवाक्कायेभ्यः पातनं त्रिपातनं तद्भाव: तया, पिट्टणयाए त्ति मुष्टिलोष्टादिभि: कुट्टनेन, परितापनया बहिरन्तञ्च पीडया, ते असंज्ञिनो यद्यपि दूरस्थानां विषयम् अनागतानां जीवानां दुःखं नोत्पादयन्ति तथाऽपि अविरतत्वाद् दुःखशोचनादे: अविरता: स्युः, ततश्च कर्मणा बध्यन्ते।॥९॥
इइ खलु ते असन्निणो संता अहोणिसं पाणाइवाए उवक्खाइजति जाव अहोनिसं परिग्गहे
१D पाणाइवायाए