SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ श्री सूत्रकृताङ्गदीपिका अस्संजय-अविरय-अपडिहयपच्चक्खायपावकम्मे तं (जहा)- पाणाइवाए जाव मिच्छादसणसल्ले, एस खलु भगवया अक्खाए असंजए अविरए अपडिहयपच्चक्खायपावकम्मे सुविणमवि अपस्सओ पावे य से कम्मे कज्जइ, से य सन्निदिटुंते णं ॥८॥ यद्यपि सर्वजीवेषु हिंसापरिणामो मोत्पद्यते तथाऽपि अविरतिसद्भावात् तद्विषयः कर्मबन्धो भवत्येव, अत्र दृष्टांतद्वयमाह- संज़िदृष्टान्तो असंज्ञिदृष्टांतश्च, कोऽयं संज्ञिदृष्टान्त:? के इमे सजिपञ्चेन्द्रियाः तेषां मध्ये कश्चिदेक: षड्जीवनिकायान् प्रतीत्य आश्रित्य एवं प्रतिज्ञा कुर्यात्, अहं पृथिवींकायेनैव एकेन कृत्यं करोमि कारयामि, स च एवं कृतप्रतिज्ञ: तेन तस्मात् तस्मिन् तं च करोति कारयति च, शेषकायेभ्यो निवृतः, तस्य च एवंभूतो अभिप्राय: तद्यथा - अहं पृथिवीकायेन कृत्यं करोमि कारयामि च, एवं प्रतिज्ञायां कृतायां विशेषाभिप्रायो न स्याद् यत् श्वेतेन कृष्णेन वा पृथ्वीकायेन कृत्यं करोमि कारयामि वा, स तस्मात् पृथ्वीकायाद् अनिवृतो अप्रतिहतप्रत्याख्यातपापकर्मा स्यात्, एवं अप्-तेजो-वायु- वनस्पतिषु अपि वाच्यं, यथा कश्चिद् अप्कायाद् अनिवृत्तः कश्चित् तेजस्कायादिति, शेषकायैस्तु व्यापार करोति, कश्चित् षट्सु अपि जीवनिकायेषु अनिवृत्तो असंयतत्वात् तैः कार्यं करोति कारयति, न पुनः तद्विशेषप्रतिज्ञा, एवं मृषावादेऽपि वाच्यं-यथा इदं मया वक्तव्यं अनृतं इदं न वक्तव्यं, स च तस्मात् मृषावादाद् अनिवृत्तत्वाद् १BD भवति
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy