________________
श्री सूत्रकृताङ्गदीपिका
द्वि.श्रु.स्कन्धे र चतुर्थमध्ययनम्
भवति, एवं बाल एकेन्द्रियादिः अपि सर्वप्राणिनां विरते: अभावात् प्रत्येकं घातकचित्तं समादाय नित्यं प्रशठव्यतिपातचित्तदण्डः स्यात्, तत्प्रत्ययिकेन कर्मणा बध्यत इति ॥६॥ __एवं षड्जीवनिकायेषु प्रत्येकं अमित्रभूततया पापानुबन्धित्वे दर्शिते परो व्यभिचारं दर्शयति
जो इणढे समढे-इह खलु बहवे पाणा जे इमेणं सरीरसमुस्सएणं णो दिठ्ठा वा सुया वा नाभिमया वा विण्णाया वा जेसिं णो पत्तेयं पत्तेयं चित्तं समादाय दिया वा राओ वा ते वा जागरमाणे वा अमित्तभए मिच्छासंठिए निच्चं पसढविउवायचित्तदंडे तं (जहा)- पाणाइवाए जाव मिच्छादसणसल्ले।।७॥
नायमर्थः समर्थो यत् सर्वेऽपि प्राणिनः सर्वेषां जीवानाम् अमित्रभूता इति, तत्र पर: स्वपक्षसिद्धये युक्तिमाह- इह बहवो अनन्ताः प्राणिनः सन्ति ये अमुना शरीरसमुच्छ्रयेण अनेन शरीरेण न कदाचिद् दृष्टाः चक्षुषा, न श्रुताः कर्णाभ्यां, नाभिमता: न इष्टाः, न च विज्ञाता ज्ञानेन इति कथं तद्विषयः तेषु अमित्रभावः स्यात्? तेषां जीवानां कदाचिदपि विषयम् अप्राप्तानां कथं वधं प्रति चित्तसमादानं स्यातू? न चाऽसौ तान् प्रति प्रशठव्यतिपातचित्तदंड स्यात्, शेषं सुगमम् ॥७॥