________________
अपकारसमेन कर्मणा, न नरस्तुष्टिमुपैति शक्तिमान् । अधिकां कुरुतेऽरियातनां, द्विषतां मूलमशेषमुद्धरेत् ।। इति,
एवमसौ अपि अमित्रभूत: स्यादिति, अथ पूर्वोक्तार्थं अनुवदन् उपसंहरति, एवं खलु भगवया इत्यादि- यथा वधको अनिवृत्तत्वाद् दुष्टः, एवमेकेन्द्रियादिको अस्पष्टविज्ञानोऽपि अविरतत्वाद् दुष्ट एवेति, शेषं सुगमं यावत् पापं कर्म क्रियत इति।।५।। तदेवं पूर्वोक्तार्थनिगमनं कृत्वा अधुना स सर्वप्राणिनां दुष्टाऽऽत्मा स्यादिति दर्शयति
जहा से वहए तस्स वा गाहावइस्स जाव रायपुरिसस्स पत्तेयं (पत्तेयं) चित्तं समादाय दिया वा राओ वा सत्ते वा जागरमाणे वा अमित्तभूए मिच्छासंठिए निच्चं पसढविउवायचित्तदंडे भवइ, एवामेव बाले सव्वेसिं पाणाणं जाव सव्वेसिं सत्ताणं पत्तेयं पत्तेयं चित्तं समादाय दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूए मिच्छासंठिए जाव चित्तदंडे भवइ॥६॥
यथा असौ वधको गृहपत्यादेः प्रत्येकं सर्वेषु वध्येषु घातकचित्तं समादाय प्राप्ताऽवसरो अहमेतं हनिष्यामि इति कृत्वा दिवा रात्रौ वा सुप्तो जाग्रद् वा सर्वावस्थासु सर्वप्राणिनां प्रत्येकं अमित्रभूतो अघ्नन् अपि मिथ्यासंस्थितो नित्यं प्रशठव्यतिपातचित्तदण्डो
KEEKLEEKENAKAKKARNE
॥९॥
१Pराउ २B अहमेनं