________________
श्री सूत्रकृताङ्गदीपिका
जागरमाणे वा अमित्तभूते मिच्छासंठिए निच्चं पसढविउवायचित्तदंडे, एवामेव बाले वि सव्वेसिं पाणणं जाव सव्वेसिं सत्ताणं दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूते मिच्छासंठिए निच्चं पसढविउवायचित्तदंडे तं ( जहा ) - पाणाइवाए जाव मिच्छादंसणसल्ले, एवं खलु भगवया अक्खाए असंजए अविरए अपडिहयपच्चक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले एतत्ते यावि भवइ, से बाले अवियारमण - वयस - काय वक्के सुविणमवि न पस्सइ, पावे य कम्मे कज्जइ ॥ ५ ॥
जहा सेत्ति यथा असौ वधक इत्यादिना दृष्टांतमनूद्य दाष्टतिकं दर्शयति एवामेव इत्यादि यथा असौ वधको अवसरापेक्षी वध्यस्य हिंसाम् अकुर्वाणो अपि अमित्रभूतो भवति एवमसौ अपि बालो अस्पष्टविज्ञानो निवृत्तेः अभावाद् योग्यतया सर्वेषां प्राणिनां हन्ता स्यात्, यावत् मिथ्यादर्शनशल्योपेतः स्यात्, कोऽर्थ : ? - यद्यपि विनयादिकं कुतश्चित् कारणाद् असौ वित् तथाऽपि उदायिनृपमारकवत् अन्तः दुष्ट एव, नित्यं हिंसाऽनुगतचित्तश्च यथा पर्शुरामः कृतवीर्यं हत्वाऽपि ततः सप्तवारं निःक्षत्रां पृथ्वीं चकार, यदुक्तं
द्वि. श्रु. स्कन्धे चतुर्थमध्ययनम्