________________
तत्र खलु भगवता वधकदृष्टान्तः प्रज्ञप्तः, तद्यथा नाम कश्चिद् वधक: स्यात्, गृहपतेः गृहपतिपुत्रस्य वा राज्ञो राजपुरुषस्य वा उपरि कुतश्चिन्निमित्तात् कुपित: सन् क्षणं अवसरं निदाय प्राप्य गृहे पुरे वा घाताय प्रवेक्ष्यामि, क्षणं अवसरं छिद्रादिकं लब्ध्वा वध्यं हनिष्यामि इति संप्रधारयन् दिवा बा रात्रौ वा सुप्तो वा जाग्रद् वा अमित्रभूतो मिथ्यासंस्थितो नित्यं प्रशठव्यतिपातचित्तदण्डो हिंसाऽध्यवसायी भवति, अयमर्थः, कोऽपि कस्याऽपि गृहपत्यादेः उपरि कुपित: तं हन्तुकामोऽपि यावदवसरं छिद्रं न लभते तावत्कार्यान्तरे प्रवर्त्तते, एवं स स्वकार्यप्रवृत्तोऽपि हिंसामकुर्वन्नपि वध्यस्य हिंसाऽवसरापेक्षी नित्यं रागद्वेषाकुलः स्यात्, एवमेकेन्द्रियविकलेन्द्रिया अपि विरते: अभावात् तदयोग्यतया हिंसामकुर्वन्तोऽपि तत्प्रत्ययिकेन कर्मणा बध्यन्त एव इत्यर्थः। अथ आचार्य एव स्वाभिमतार्थं परप्रश्नपूर्वम् आह- से किं नु इत्यादि- आचार्य: स्वयं निर्णीतार्थोऽपि ईय॑या परं पृच्छति, किमसौ वधकपुरुषो हननावसरापेक्षी नित्यं हिंसानुगतचित्त: स्यात् किं वा न? इति पृष्टः पर: समतया मध्यस्थ: सन् यथाऽवस्थितमेव व्यागृणीयात् कथयेत् तद्यथा हन्त आचार्य भवति असौ अमित्रभूत इति ॥४॥ अथ दार्टीतिकं दर्शयति
जहा से वहए तस्स वागाहावइस्स तस्स वागाहावइपुत्तस्स तस्स वारन्नो तस्स वारायपुरिसस्स खणं निदाए पविसिस्सामि खणं लभ्रूणं वहिस्सामि त्ति पहारेमाणे दिया वा राओ वा सुत्ते वा
॥९०॥