________________
श्री सूत्रकृताङ्गदीपिका
द्वि.श्रु.स्कन्धे चतुर्थमध्ययनम्
नियमितं पापं कर्म येन स तथा, जीवेषु विरतः, एवंभूतो न स अप्रतिहतप्रत्याख्यातपापकर्मा, नित्यं प्रकर्षेण शठः- प्रशठः, व्यतिपाते- हिंसायां चित्तं यस्य स व्यतिपातचित्तः, स्वपरदण्डहेतुत्वाद् दण्डः, प्रशठश्चासौ व्यतिपातचित्तदण्डश्च इति, तद्यथा प्राणातिपाते विधेये प्रशठव्यतिपातचित्तदण्डः, एवं मृषावादादिषु अपि वाच्यं यावत् मिथ्यादर्शनशल्यं, तदेवम् एकेन्द्रियविकलेन्द्रिया अपि हिंसादिदोषवत्तया मिथ्यात्वाऽविरति-प्रमाद-कषाय-योगाश्रितत्वेन अस्वप्नाद्यवस्थायामपि कर्मबन्धका एव इति, एवं सति यत् परेणोक्तम् अव्यक्तविज्ञानानां अघ्नताम् अमनस्कानां न कर्मबन्ध इति तत् निरस्तं ज्ञेयम् ॥३॥ अथाऽऽचार्य: स्वमतसिद्धये दृष्टांतमाह
तत्थ खलु भगवया वहयदिटुंते पन्नत्ते, से जहानामए वहए सिया गाहावइस्स वागाहावइपुत्तस्स वा रणो वा रायपुरिसस्स वा खणं निदाए पविसिस्सामि खणं लद्धणं वहिस्सामि पहारेमाणे, से किं नु हु नाम से वहए तस्स वा गाहावइस्स तस्स वा गाहावइपुत्तस्स तस्स वा रनो तस्स वा रायपुरिसस्स खणं निदाए पविसिस्सामि खणं लघणं वहिस्सामि त्ति पहारेमाणे दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूते मिच्छासंठिए निच्चं पसढविउवायचित्तदंडे भवइ? एवं वियागरेमाणे समियाए वियागरे चोयए- हंता भवइ॥४॥