________________
श्री सूत्रकृतामदीपिका
द्वि.श्रु.स्कन्धे द्वितीयमध्ययनम्
सुविणमवि पासओ, एवंगुणजातीयस्स पावे कम्मे कज्जइ, पुणरवि चोयगे एवं बवीति, तत्थ णं जे ते एवमाहंसु- *असंतएणं मणेणं पावएणं असंतियाए वईए पावियाए असंतएणं कायेणं पावएणं अहणंतस्स अमणक्खस्स अवियारमण- वयस- काय- वक्कस्स सुविणमवि अपस्सओ पावे कम्मे कज्जइ, जे ते एवमाहंसु मिच्छा ते एवमाहंसु ॥२॥
असंतएणंत्ति- असता अविद्यमानेन मनसा अप्रवृत्तेन अशोभनेन तथा वाचा कायेन च पापेन असता, तथा सत्वान् अघ्नतः, अमनस्कस्थ, अविचारमनोवाक्कायवाक्यस्य, स्वप्नम् अपि अपश्यत: स्वप्नांन्तिकं च कर्म न अपचयं याति इत्येवम् अव्यक्तविज्ञानस्य पापं कर्म न बध्यते । कस्य हेतो: केन कारणेन तत्पापं कर्म बध्यते? नाऽत्र कश्चिद् अव्यक्तविज्ञानत्वात् पापकर्मबन्धहेतुः इत्यर्थः, तदेवं शिष्य एव स्वाऽभिप्रायेण पापकर्मबन्धहेतुमाह, अनयरेणं ति- कर्माश्रवद्वारभूतेन मनोवाक्कायानाम् अन्यतरेण क्लिष्टेन तत्प्रत्ययिकं कर्म बध्यते तथा घ्नत: सत्वान् समनस्कस्य सविचारमनोवाक्कायवाक्यस्य स्वप्नमपि पश्यत: स्पष्टविज्ञानस्य एवंगुणजातीयस्य पापं कर्म बध्यते, न पुनः एकेन्द्रियविकलेन्द्रियादेः पापकर्मसंभव इति, तेषां घातकस्य मनोवाक्कायव्यापारस्य अभावात्, तस्मात् नैव स्वप्नांतिकं अविज्ञोपचितम् कर्म विद्यत इति, एवं सति ये ते एवमुक्तवन्तः, तद्यथा अविद्यमानैः एव अशुभैः योगैः पापं ** एतदन्तर्गतः पाठः P प्रतौ नोपलभ्यते, १BD पापकर्म