________________
अक्रियाकुशलोऽपि, आत्मा मिथ्यात्वसंस्थितः, आत्मा एकांतदंडो हिंसक: स्याद् आत्मा बालः, सुप्तो भावसुप्तश्च, अविचाराणि अशोभनानि मनो-वच:-काय-वाक्यानि यस्य स तथा, वाग्ग्रहणेनैव वाक्यस्य गतार्थत्वात् पुनः वाक्यग्रहणं वाग्व्यापारस्य प्राचुर्यज्ञापनार्थम्, तथा अप्रतिहतप्रत्याख्यानपापकर्मा- अप्रतिहतम्-अनिवारितं प्रत्याख्यानेन-विरत्या पापकर्म येन स तथा, एवमेष आत्मा असंयतो अविरतो अप्रतिहतप्रत्याख्यानपापकर्मा सक्रियो असंवृत्त एकान्तदंड: एकान्तबाल: एकान्तसुप्तः स बालो अविचारमनो-वच: काय-वाक्यः, स एवम्भूतः पटुविज्ञानरहितः स्वप्नमपि न पश्यति, तेनाऽपि एवम्भूतेन अव्यक्तज्ञानेनाऽपि पापं कर्म बध्यते॥१॥ ___ एवं स्थिते शिष्यः प्रज्ञापकं आचार्यम् एवमवादीत्, अथवा आचार्याऽभिप्रायं शिष्योऽनूद्य निषेधति
(तत्थ चोयए पन्नवगं एवं वयासी-) असंतएणं मणेणं पावएणं असंतियाए वईए पावियाए असंतएणं काएणं पावएणं अहणंतस्स अमणक्खस्स अविचार-मण-वयस-काय-वक्कस्स सुविणमवि अपस्सओ पावकम्मे णो कज्जड़।
कस्स णं तं हेउं ? चोयग एवं बवीति- अण्णयरेणं मणेणं पावएणं मणवत्तिए पावे कम्मे कज्जइ, अण्णयरीए वईए पावियाए वयवत्तीए पावे कम्मे कज्जइ, अण्णयरेणं काएणं पावएणं कायवत्तिए पावे कम्मे कज्जइ, हणंतस्स समणक्खस्स सवियारमण-वयस-काय-वक्कस्स
॥८॥