________________
अथापरम् इदमाख्यातं- सर्वे जीवा नानाविधयोनिका नानाविधयोनिषु उत्पद्यन्ते, यत्र च उत्पद्यन्ते तत्र तत्तद्देहाहारिणः स्युः, तेन आहारेण च अगुप्ताः कर्मवशगाः चतुर्गतिषु भ्रमन्ति, से एवमायाणह त्ति- तदेवं जानीत यूयं यत्पूर्वोक्तं सर्वं, एवं ज्ञात्वा आहारगुप्तः पञ्चसमितियुतः समितः सहितो वा ज्ञानादिभिः सदा यंतेत संयमे प्रयत्नवान् भवेदिति, ब्रवीमीति पूर्ववत् ॥३१॥
१ BD यते
द्वितीयश्रुतस्कन्धे आहारपरिज्ञाऽऽख्यं तृतीयाध्ययनं समाप्तम् ।।
॥८७॥